________________
१४८
धृतिमम्बां च पितरौ तन्मा विसृजतं ध्रुवम् ॥ १ ॥ युष्माकं सङ्गमोऽनादिर्बन्धवोऽनियतात्मनाम् । ध्रुवैकरूपान् शीलादिबन्धूनित्यधुनाश्रये ॥ २ ॥ कान्ता मे समतैवैका, ज्ञातयो मे समक्रिया । बाह्यवर्गमिति त्यक्त्वा धर्मसंन्यासवान् भवेत् ॥ ३ ॥ धर्मास्याज्याः सुसङ्गोत्थाः क्षायोपशमिका अपि । प्राप्य चन्दनगन्धाभं धर्मसंन्यासमुत्तमम् ||४|| गुरुत्वं स्वस्य नोदेति शिक्षासात्म्येन यावता । आत्मतत्त्वप्रकाशेन तावत्सेव्यो गुरुत्तमः || ५ || ज्ञानाचारादयो sपीष्टाः शुद्धस्वस्वपदावधि । निर्विकल्पे पुनस्त्यागे न विकल्पो न च क्रियाः || ६ || योगसंन्यासतस्त्यागी योगानप्यखिलांस्त्यजेत् । इत्येवं निर्गुणं ब्रह्म परोक्तमुपपद्यते ।। ७ ।। वस्तुतस्तु गुणैः पूर्णमनन्तैर्भासते स्वतः । रूपं त्यक्त्वात्मनः साधोर्निरभ्रस्य विधोरिव
11 2 11
क्रियाष्टकम् - ज्ञानी क्रियापरः शान्तो भावितात्मा जितेन्द्रियः । स्वयं तीर्णो भवाम्भोधेः परांस्तारयितुं क्षमः ॥ १ ॥ क्रियाविरहितं हन्त ! ज्ञानमात्रमनर्थकम् । गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ २ ॥ स्वानुकूलां क्रियां काले ज्ञानपूर्णोऽप्यपेक्षते । प्रदीपः सप्रकाशोऽपि तैलपूर्त्यादिकं यथा ॥ ३ ॥ बाह्यभावं पुरस्कृत्य ये क्रियाव्यवहारतः । वदने कवलक्षेपं विना ते तृप्ति - काङ्क्षिणः ॥ ४ ॥ गुणवद्बहुमानादेर्नित्यस्मृत्या च सत्क्रिया । जातं न पातयेद्भावमजातं जनयेदपि || ५ || क्षायोपशमिके भावे या क्रिया क्रियते तया । पतितस्यापि तद्भावप्रवृद्धिर्जायते पुनः ॥ ६ ॥ गुणवृद्धयै ततः कुर्यात् क्रियामस्खलनाय वा । एकं तु संयमस्थानं जिनानामवतिष्ठते ||७|| वचोऽनुष्ठानतोऽसङ्गक्रियासङ्गतिमङ्गति । सेयं ज्ञानक्रियाभेदभूमिरानन्दपिच्छला ॥ ८ ॥
तृप्त्यष्टकम् - पीत्वा ज्ञानामृतं भुक्त्वा क्रियासुरलताफलम् ।