________________
ज्ञानस्य परिपाको यः स शमः परिकीर्तितः ॥ १ ॥ भनिच्छन् कर्मवैषम्यं ब्रह्मांशेन समं जगत् । आत्माभेदेन यः पश्येदसौ मोक्षङ्गमी शमी ॥ २ ॥ आरुरुक्षुर्मनिर्योगं श्रयेद् बाह्यक्रियामपि । योगारूढः शमादेव शुद्धथत्यन्तर्गतक्रियः ॥३॥ ध्यानवृष्टेर्दयानद्याः शमपूरे प्रसर्पति । विकारतीरवृक्षाणां मूलादुन्मूलनं भवेत् ॥४॥ ज्ञानध्यानतपःशीलसम्यक्त्वसहितोऽप्यहो !। तं नाप्नोति गुणं साधुर्यमाप्नोति शमान्वित ॥ ५ ॥ स्वयम्भूरमणस्पर्द्धिवर्धिष्णुसमतारसः । मुनियेनोपमीयेत कोऽपि नासौ चराचरे ॥ ६॥ शमसूक्तसुधासिक्तं येषां नक्तं दिनं मनः । कदापि ते न दह्यन्ते रागोरगविषोर्मिभिः ॥ ७ ॥ गर्जज्ज्ञानगजोत्तुङ्गरङ्गद्धयानतुरङ्गमाः। जयन्ति मुनिराजस्य शमसाम्राज्यसम्पदः ॥ ८॥
__इन्द्रियजयाप्टकम्-बिभेषि यदि संसारान्मोक्षप्राप्तिं च काङक्षसि । तदेन्द्रियजयं कर्तुं स्फोरय स्फारपौरुषम् ॥ १ ॥ . वृद्धास्तष्णाजलापूर्णैरालवालैः किलेन्द्रियैः। मूर्छामतुच्छां यच्छन्ति विकारविषपादपाः ॥ २ ॥ सरित्सहस्रदुष्पूरसमुद्रोदरसोदरः । तृप्तिमान्नेद्रियग्रामो भव तृप्तोऽन्तरात्मना ॥ ३ ॥ आत्मानं विषयैः पाशैर्भववासपराङ्मुखम् । इन्द्रियाणि निबध्नन्ति मोहराजस्य किङ्कराः ॥ ४ ॥ गिरिमृत्नां धनं पश्यन् धावतीन्द्रियमोहितः । भनादिनिधनं ज्ञानं धनं पार्श्वे न पश्यति ॥ ५ ॥ पुरः पुरः स्फुरत्तष्णामृगतृष्णानुकारिषु । इन्द्रियार्थेषु पावन्ति त्यक्त्वा ज्ञानामृतं जडाः ॥ ६ ॥ पतङ्गभृङ्गमीनेभसारङ्गा यान्ति दुर्दशाम् एकैकेन्द्रियदोषाश्चेद् दुष्टस्तैः किं न पञ्चभिः ? ॥ ७ ॥ विवेकद्विपहर्यक्षैः समाधिधनतस्करै । इन्द्रियैर्न जितो योऽसौ धीराणां धुरि गण्यते ॥ ८ ॥
त्यागाप्टकम-संयमात्मा श्रयेच्छुद्धोपयोगं पितरं निजम् ।