________________
मोहाष्टकम्-अहं-ममेति मन्त्रोऽयं मोहस्य जगदान्ध्यकृत् । अयमेव हि नपूर्वः प्रतिमन्त्रोऽपि मोहजित् ॥ १॥ शुद्धात्मद्रव्यमेवाहं शुद्धज्ञानं गुणो मम । नान्योऽहं न ममान्ये चेत्यदो मोहालमुल्बणम् ॥२॥ यो न मुह्यति लग्नेषु भावेष्वौदयिकादिषु। आकाशमिव पडून नाऽसौ पापेन लिप्यते ॥ ३ ॥ पश्यन्नेव परद्रव्यनाटकं प्रतिपाटकम् । भवचक्रपुरस्थोऽपि नामूढः परिखिद्यते ॥ ४ ॥ विकल्पचषकैरात्मा पीतमोहासवो ह्ययम् । भवोचतालमुतालप्रपञ्चमधितिष्ठति ॥ ५ ॥ निर्मलं स्फटिकस्येव सहजं रूपमात्मनः । अध्यस्तोपाधिसम्बन्धो जडस्तत्र विमुह्यति ॥ ६ ॥ अनारोपसुखं मोहत्यागादनुभवन्नपि । आरोपप्रियलोकेषु वक्तुमाश्वर्यवान् भवेत् ॥ ७ ॥ यश्चिद्दर्पणविन्यस्तसमरताचारचारुधीः । क नाम स परद्रव्येऽनुपयोगिनि मुह्यति ॥ ८ ॥
ज्ञानाष्टकम्-मजत्यज्ञः किलाज्ञाने विष्ठायामिव शूकरः । ज्ञानी निमज्जति ज्ञाने मराल इव मानसे ॥ १॥ निर्वाणपदमप्येकं भाव्यते यन्मुहुर्मुहुः । तदेव ज्ञानमुत्कृष्टं निर्बन्धो नास्ति भूयसा ॥२॥ स्वभावलाभसंस्कारकारणं ज्ञानमिष्यते । ध्यान्ध्यमात्रमतस्त्वन्यत्तथा चोक्तं महात्मना ॥ ३॥ वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ॥ ४॥ स्वद्रव्यगुणपर्याय-चर्या वर्या परान्यथा । इति दत्तात्मसन्तुष्टिमष्टिज्ञानस्थितिर्मुनेः ॥ ५ ॥ अस्ति चेद् ग्रन्थिभिज्ज्ञानं किंचित्रैस्तन्त्रयन्त्रणैः ? । प्रदीपाः कोप्युज्यन्ते ? तमोघ्नी दृष्ठिरेव चेत् ॥ ६ ॥ मिथ्यात्वशैलपक्षच्छिज्ज्ञानदम्भौलिशोभितः । निर्भयः शक्रवद् योगी नन्दत्यानन्दनन्दने ॥ ७ ॥ पीयूषमसमुद्रोत्थं रसायनमनौषधम्। अनन्यापक्षमैश्वयं ज्ञानमाहुर्मनीषिणः ॥८॥
शमाष्टकम्-विकल्पविषयोत्तीर्णः स्वभावाऽऽलम्बनः सदा।