SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४५ न्यूनता न हरेरपि ॥ ७ ॥ कृष्ण पक्षे परिक्षीणे शुक्ले च समुदश्चति । द्योतते सकलाध्यक्षा पूर्णानन्दविधोः कला ॥ ८ ॥ . मग्नाष्टकम्-प्रत्याहृत्येन्द्रियव्यूहं समाधाय मनो निजम् । दधञ्चिन्मात्रविश्रान्तिर्मग्न इत्यभिधीयते ॥ १ ॥ यस्य ज्ञानसुधासिन्धौ परब्रह्मणि मग्नता । विषयान्तरसञ्चारस्तस्य हालाहलोपमः ॥ २ ॥ स्वभावसुखमग्नस्य जगत्तत्त्वावलोकिनः । कर्तृत्वं नान्यभावानां साक्षित्वमवशिष्यते ॥ ३ ॥ परब्रह्मणि मग्नस्य लथा. पौगलिकी कथा । कामी चामीकरोन्मादाः स्फारा दारादरा क च ? ॥ ४ ॥ तेजोलेश्याविवृद्धिर्या साधोः पर्यायवृद्धितः । भाषिता भगवत्यादौ सेत्थम्भूतस्य युज्यते ॥ ५ ॥ ज्ञानमग्नस्य यच्छर्म तद्वक्तुं नैव शक्यते । नोपमेयं प्रिया लेषैर्नापि तचन्दनद्रवैः ॥६॥ शमशैत्यपुषो यस्य विप्रषोऽपि महाकथा । किं स्तुमो ज्ञानपीयूषे तत्र सर्वाङ्गमग्नता॥७॥ यस्य दृष्टिः कृपावृष्टिगिरः शमसुधाकिरः । तस्मै नमः शुभज्ञानध्यानमग्नाय योगिने ॥ ८ ॥ . . स्थिरताष्टकम्-वत्स! किं चञ्चलस्वान्तो भ्रान्त्वा भ्रान्त्वा विषीदसि ? । निधिं स्वसन्निधावेव स्थिरता दर्शयिष्यति ॥ १ ॥ ज्ञानदुग्धं विनश्येत लोभविक्षोभकूर्चकैः । अम्लद्रव्यादिवास्थैर्यादिति मत्वा स्थिरो भव ॥२॥ अस्थिरे हृदये चित्रा वाङ्नेत्राऽऽकारगोपना । पुंश्चल्या इव कल्याणकारिणी न प्रकीर्तिता ॥३॥ अन्तर्गतं महाशल्यमस्थैर्य यदि नोद्धृतम् । क्रियौषधस्य को दोषस्तदा गुणमयच्छतः ? ॥४॥ स्थिरता वाङमनःकायैर्येषामङ्गाङ्गिता गता । योगिनः शमशीलास्ते प्रामेऽरण्ये दिवानिशि ॥ ५ ॥ स्थैर्यरत्नप्रदीप चेद् दीप्रः संकल्पदीपजैः । तद्विकल्पैरलं धूमैरलंधूमैम्तथाश्रवैः ॥ ६ ॥ उदीरयिष्यसि स्वान्तादस्थैर्यपवनं यदि । समाधेर्धर्ममेघस्य घटा विघटयिष्यसि ॥ ७ ॥ चारित्रं स्थिरता, रूपमेतत्सिद्धेष्वपीष्यते। यतन्तां यतयोऽवश्यमस्या एव प्रसिद्धयेला
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy