________________
१४४
स्त्रीषु धूलिषु निजे च परे वा, संपदि प्रसरदापदि चात्मन् !। तत्त्वमेहि समतां ममतामुग, येन शाश्वतसुखाद्वयमेषि ॥ ४ ॥ तमेव सेवस्व गुरु प्रयत्नादधीष्व, शास्त्राण्यपि तानि विद्वन् ! । तदेव तत्त्वं परिभावयात्मन् !, येभ्यो भवेत्साम्यसुधोपभोगः ॥ ५॥ समग्रसच्छास्त्रमहार्णवेभ्यः, समुद्धतः साम्यसुधारसोऽयम् । निपीयतां हे विबुधा ! लभध्वमिहापि मुक्तेः सुखवर्णिकां यत् ॥ ६ ॥ शांतरसभावनात्मा, मुनिसुंदरसूरिभिः कृतो ग्रंथः । ब्रह्मस्पृहया ध्येयः, स्वपरहितोऽध्यात्मकल्पतरुरेषः ॥ ७ । इममिति मतिमानधीत्य चित्ते, रमयति यो विरमत्ययं भवाद्वाक् । स च नियतमतो रमेत चास्मिन् , सह भववैरिजयश्रिया शिवश्रीः ॥ ८ ॥ इति सहस्रावधानिश्रीमुनिसुन्दरसूरिविरचितः षोडशाधिकारात्म
कोऽध्यात्मकल्पद्रुमः समाप्तः ।
न्यायविशारदमहोपाध्यायश्रीयशोविजयविरचितं
श्रीज्ञानसारसूत्रम् । पूर्णाष्टकम्-ऐन्द्रश्रीसुखमग्नेन लीलामग्नमिवाखिलम् । सच्चिदानन्दपूर्णेन :पूर्ण जगदवेक्ष्यते ॥ १ ॥ पूर्णता या परोपाधेः सा याचितकमण्डनम् । या तु स्वाभाविकी सैव जात्यरत्नविभानिभा ॥२॥ अवास्तवी विकल्पैः स्यात् पूर्णताब्धेरिवोर्मिभिः । पूर्णानन्दस्तु भगवांस्तिमितोदधिसन्निभः ॥ ३ ॥ जागर्ति ज्ञानदृष्टिश्चेत् तृष्णा कृष्णाहिजाडगुली। पूर्णानन्दस्य तत्किं स्यादैन्यवृश्चिकवेदना ॥ ४ ॥ पूर्यन्ते येन कृपणास्तुदुपेक्षैव पूर्णता । पूर्णानन्दसुधास्निग्धा दृष्टिरेषा मनीषिणाम् ॥ ५ ॥ अपूर्णः पूर्णतामेति पूर्यमाणस्तु हीयते । पूर्णानन्दस्वभावोऽयं जगदद्भुतदायकः ॥ ६ ॥ परस्वत्वकृतोन्माथा भूनाथा न्यूनतेक्षिणः । स्वस्वत्वसुखपूर्णस्य