________________
१४३
निघ्नन्ति तान्येव कुकर्मराशिं, रसायनानीवदुरामयान् यत् ॥ २ ॥ विशुद्धशीलांगसहस्रधारी, भवानिशं निर्मितयोगसिद्धिः । सहोपसर्गास्तनुनिर्ममः सन् , भजस्व गुप्तीः समितीश्च सम्यक् ॥ ३ ॥ स्वाध्याययोगेषु दधस्व यत्नं, मध्यस्थवृत्त्यानुसरागमार्थान् । अगारवो भैक्षमटाऽविषादो, हेतौ विशुद्ध वशितेंद्रियौधः ॥४॥ ददस्व धर्मार्थितवैव धान् , सदोपदेशान् स्वपरादिसाम्यान् । जगद्धितैषी नवभिश्च कल्पैमे कुले वा विहराऽप्रमत्तः ॥ ५ ॥ कृताकृतं स्वस्य तपोजपादि, शक्तीरशक्तीः सुकृतेतरे च । सदा समीक्षस्व हृदाथ साध्ये यतस्व हेयं त्यज चाव्ययार्थी ॥६॥ परस्य पीडापरिवर्जनात्ते, त्रिधा त्रियोग्यप्यमला सदास्तु । साम्यैकलीनं गतदुर्विकल्पं, मनो वचश्वाप्यनघप्रवृत्ति ॥ ७ ॥ मैत्री प्रमोदं करुणां च सम्यक् , मध्यस्थतां चानय साम्यमात्मन् । सद्भावनास्वात्मलयं प्रयत्नात् , कृताविरामं रमयस्व चेतः ! ॥ ८ ॥ कुर्यान्न कुत्रापि ममत्वभावं, न च प्रभो ! रत्यरती कषायान् । इहापि सौख्यं लभसेऽप्यनीहो, ह्यनुत्तरामर्त्यसुखाभमात्मन् ! ॥ ९ ॥ इति यतिवरशिक्षा योऽवधार्य व्रतस्थ-श्चरणकरणयोगानेकचित्तः श्रयेत । सपदि भवमहाब्धि क्लेशराशिं स तीर्खा, विलसति शिवसौख्यानंत्यसायुज्यमाप्य ॥१०॥
अथ षोडशः साम्यसर्वस्वाधिकारः एवं सदाभ्यासवशेन सात्म्यं, नयस्व साम्यं परमार्थवेदिन !। यतः करस्थाः शिवसंपदस्ते, भवन्ति सद्यो भवभीतिभेत्तुः ॥१॥ त्वमेव दुःखं नरकस्त्वमेव, त्वमेव शर्मापि शिवं त्वमेव । त्वमेव कर्माणि मनस्त्वमेव, जहीह्यविद्यामवधेहि चात्मन् ! ॥२॥ निःसंगतामेहि सदा तदात्मन्नर्थेष्वशेषेष्वपि साम्यभावात् । अवेहि विद्वन् ! ममतैव मूलं, शुचां सुखानां समतैव चेति ॥ ३ ॥