________________
१४२
यताः । शिवहेतुक्रियो येषां, कायस्तांस्तु स्तुवे यतीन् ॥ ११ ॥ श्रुतिसंयममात्रेण, शब्दान् कान् के त्यजन्ति न । इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यजन्मुनिः ॥ १२ ॥ चक्षुःसंयममात्रात् के, रूपालोकांस्त्यजन्ति न । इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यजन्मुनिः ॥ १३ ॥ घ्राणसंयममात्रेण, गंधान कान् के त्यजन्ति न । इष्टानिष्टेषु चैतेषु, रागद्वेषौ त्यजन् मुनिः ॥१४॥ जिह्वासंयममात्रेण, रसान् कान् के त्यजन्ति न । मनसा त्यज तानिष्टान् , यदीच्छसि तपःफलम् ।। १५ ।। त्वचःसंयममात्रेण, स्पर्शान् कान् के त्यजन्ति न। मनसा त्यज तानिष्टान् यदीच्छसि तपःफलम् ।। १६॥ बस्तिसंयममात्रेण, ब्रह्म के के न बिभ्रते । मनःसंयमतो धेहि, धीर! चेत्तत्फलार्थ्यसि ॥ १७॥ विषयेंद्रियसंयोगाभावात्के के न संयताः। रागद्वेषमनोयोगाभावात्के तु स्तवीमि तान् ॥ १८ ॥ कषायान् संवृणु प्राज्ञ, नरकं यदसंवरात् । महातपस्विनोऽप्यापुः, करटोत्करटादयः ॥ १९ ॥ यस्यास्ति किंचिन्न तपोयमादि, ब्रूयात्स यत्तत्तुदतां परान् वा । यस्यास्ति कष्टाप्तमिदं तु किं न, तभ्रंशभी: संवृणुते स योगान् ॥ २०॥ भवेत्समग्रेष्वपि संवरेषु, परं निदानं शिवसंपदां यः । त्यजन् कषायादिजदुविकल्पान् , कुर्यान्मनःसंवरमिद्धधीस्तम् ॥२१॥ तदेवमात्मा कृतसंवरः स्यात् , निःसंगताभाक सततं सुखेन । निःसंगभावादथ संवरस्तद्वयं शिवार्थी युगपद्भजेत ।। २२ ॥
-
अथ पंचदशः शुभवृत्तिशिक्षोपदेशाधिकारः
आवश्यकेष्वातनु यत्नमाप्तोदितेषु शुद्धेषु तमोऽपहेषु । न हत्यभुक्तं हि न चाप्यशुद्धं, वैद्यौतमप्यौषधमामयान् यत् ॥ १ ॥ तपांसि तन्याद्विविधानि नित्यं, मुखे कटून्यायतिसुंदराणि ।