________________
१४१
यत्नः ? ॥ ५४ ॥ विराधितैः संयमसर्वयोगैः, पतिष्यतस्ते भवदुःखराशौ। शास्त्राणि शिष्योपधिपुस्तकाद्या, भक्ताश्च लोकाः शरणाय नालम् ॥ ५५ ॥ यस्य क्षणोऽपि सुरधामसुखानि पल्य-कोटीनृणां द्विनवती ह्यधिकां ददाति । किं हारयस्यधम ! संयमजीवितं तत् , हा हा प्रमत्त ! पुनरस्य कुतस्तवाप्तिः ? ॥ ५६॥ नाम्नापि यस्येति जनेऽसि पूज्यः, शुद्धात्ततो नेष्टसुखानि कानि । तत्संयमेऽस्मिन् यतसे मुमुक्षोऽनुभूयमानोरुफलेऽपि किं न ? ॥ ५७ ॥
अथ चतुर्दशो मिथ्यात्वादिनिरोधाधिकारः मिथ्यात्वयोगाविरतिप्रमादान , आत्मन् ! सदा संवृणु सौख्यमिच्छन् । असंवृता यद्भवतापमेते, सुसंवृता मुक्तिरमां च दद्युः ॥ १॥ मनः संवृणु हे विद्वन् !, असंवृतमना यतः । याति तंदुलमत्स्यो द्राक् , सप्तमी नरकावनीम् ॥ २ ॥ प्रसन्नचंद्रराजर्षेमनःप्रसरसंवरौ । नरकस्य शिवस्यापि, हेतुभूतौ क्षणादपि ॥३॥ मनोऽप्रवृत्तिमात्रेण, ध्यानं नैकेन्द्रियादिषु । धर्म्यशुक्लमनःस्थैर्यभाजस्तु ध्यायिनः स्तुमः ॥ ४ ॥ सार्थ निरर्थकं वा यन्-मनः सुध्यानयंत्रितम् । विरतं दुर्विकल्पेभ्यः, पारगांस्तान स्तुवे यतीन् ॥ ५ ॥ वचोऽप्रवृत्तिमात्रेण, मौनं के के न बिभ्रति । निरवयं वचो येषाम् , वचोगुप्तांस्तु तान् स्तुवे ॥ ६॥ निरवद्य वचो बहि, सावधवचनैर्यतः । प्रयाता नरकं घोरं, वसुराजादयो द्रुतम् ॥७॥ इहाऽमुत्र च वैराय, दुर्वाचो नरकाय च । अग्निदग्धा प्ररोहन्ति, दुर्वाग्दग्धाः पुनर्न हि ॥ ८ ॥ अत एव जिना दीक्षाकालादाकेवलोद्भवम् । अवद्यादिभिया ब्रूयुर्ज्ञानत्रयभृतोऽपि न ॥ ९ ॥ कृपया संवृणु स्वांगं, कूमज्ञातनिदर्शनात् । संवृतासंवृतांगा यत् , सुखदुःखान्यवाप्नुयुः ॥ १० ॥ कायस्तंभान्न के के स्युस्तरुस्तंभादयो