________________
मिलच्छीलांगमित्रैरनुषञ्जयानिशम् ॥४२॥ ध्रुवः प्रमादैर्भववारिधौ मुने!, तव प्रपातः परमत्सरः पुनः । गले निबद्धोरुशिलोपमोऽस्ति चेत् कथं तदोन्मजनमप्यवाप्स्यसि ? ॥ ४३ ॥ महर्षयः केऽपि सहंत्युदीर्याप्युग्रातपादीन्यदि निर्जरार्थम् । कष्टं प्रसंगागतमप्यणीयोऽपीच्छन् शिवं किं सहसे न भिक्षो ! ॥४४॥ यो दानमानस्तुतिवंदनाभिर्न मोदतेऽन्यैर्न तु दुर्मनायते । अलाभलाभादिपरीपहान् सहन् , यतिः स तत्त्वादपरो विडंबकः ॥ ४५ ॥ दधद् गृहस्थेषु ममत्वबुद्धिं, तदीयतप्त्या परितप्यमानः । अनिवृतांतःकरणः सदा स्वैस्तेषां च पापैर्धमिता भवेऽसि ॥ ४६ ॥ त्यक्त्वा गृहं स्वं परगेहचिंतातप्तस्य को नाम गुणस्तवर्षे ! । आजीविकास्ते यतिवेषतोऽत्र, सुदुर्गतिः प्रेत्य तु दुर्निवारा ॥४७॥ कुर्वे न सावधमिति प्रतिज्ञां, वदन्नकुर्वन्नपि देहमात्रात् । शय्यादिकृत्येषु नुदन गृहस्थान् , हृदा गिरा वाऽसि कथं मुमुक्षुः ॥ ४८ ॥ कथं महत्त्वाय ममत्वतो वा, सावद्यमिच्छस्यपि संघलोके । न हेममय्यप्युदरे हि शस्त्री, क्षिप्ता क्षणोति क्षणतोऽप्यसन् किम् ? ॥ ४९ ॥ रंकः कोऽपि जनाभिभूतिपदवीं त्यक्त्वा प्रसादाद्गुरो-वैषं प्राप्य यते: कथंचन कियच्छाखं पदं कोऽपि च । मौखर्यादिवशीकृत जनतादानार्चनैर्गर्वभा-गात्मानं गणयन्नरेंद्रमिव धिग् गंता द्रुतं दुर्गतौ ॥ ५० ॥ प्राण्यापि चारित्रमिदं दुरापं, स्वदोषजैर्यद्विषयप्रमादैः । भवांबुधौ धिक् पतितोऽसि भिक्षो!, हतोऽसि दुःखैस्तदनंतकालम् ॥ ५१ ॥ कथमपि समवाप्य बोधिरत्नं, युगसमिलादिनिदर्शनादुरापम् । कुरु कुरु रिपुवश्यतामगच्छन् , किमपि हितं लभसे यतोऽर्थितं शम् ।। ५२ ॥ द्विषस्त्विमे ते विषयप्रमादा, असंवता मानसदेहवाचः । असंयमाः सप्तदशापि हास्यादयश्च विभ्यश्चर नित्यमेभ्यः ।। ५३ ॥ गुरूनवाप्याप्यपहाय गेहमधीत्य शास्राण्यपि तत्त्ववांचि । निर्वाहचिंतादिभराद्यभावेऽप्यूषे ! न किं प्रेत्यहिताय