________________
१३९ द्यान्न मनागपीह, परीषहांश्चेत्क्षमसे विसोढुम् । कथं ततो नारकगर्भवासदुःखानि, सोढासि भवांतरे त्वम् ? ॥ ३० ॥ मुने! न किं नश्वरमस्वदेहमृत्पिंडमेनं सुतपोव्रताद्यैः । निपीड्य भीतिर्भवदुःखराशेर्हित्वात्मसाच्छैवसुखं करोषि ? ॥ ३१ ॥ यदत्र कष्टं चरणस्य पालने, परत्र तिर्यङनरकेषु यत्पुनः । तयोमिथः सप्रतिपक्षता स्थिताविशेषदृष्ट्यान्यतरजहीहि तत् ॥ ३२ ॥ शमत्र यबिन्दुरिव प्रमादजं, परत्र यच्चाब्धिरिव द्युमुक्तिजम् । तयोमिथः सप्रतिपक्षता स्थिता, विशेषदृष्ट्यान्यतरद् गृहाण तत् ॥ ३३ ॥ नियंत्रणा या चरणेऽत्र तिर्यस्त्रीगर्भकुंभीनरकेषु या च । तयोमिथः सप्रतिपक्षभावाद्विशेषदृष्ट्यान्यतरां गृहाण ॥३४॥ सह तपोयमसंयमयंत्रणां, स्ववशतासहने हि गुणो महान् । परवशस्त्वति भूरि सहिष्यसे, न च गुणं बहुमाप्स्यसि कंचन ॥ ३५ ॥ अणीयसा साम्यनियंत्रणाभुवा, मुनेऽत्र कष्टेन चरित्रजेन च । यदि क्षयो दुर्गतिगर्भवासगाऽसुखावलेस्तकिमवापि नार्थितम् ? ॥ ३६ ॥ त्यज स्पृहां स्वःशिवशर्मलाभे, स्वीकृत्य तिर्यङ्नरकादिदुःखम् । सुखाणुभिश्चेद्विषयादिजातैः, संतोष्यसे संयमकष्टभीरुः ॥ ३७॥ समग्रचिन्तातिहृतेरिहापि, यस्मिन्सुखं स्यात्परमं रतानाम् । परत्र चेन्द्रादिमहोदयश्रीः, प्रमाद्यसीहापि कथं चरित्रे ? ॥ ३८ ॥ महातपोध्यानपरीषहादि, न सत्त्वसाध्यं यदि धतुमीशः । तद्भावनाः किं समितीश्च गुप्तीर्धत्से शिवार्थिन न मनःप्रसाध्याः ॥ ३९ ॥ अनित्यताद्या भज भावनाः सदा, यतस्व दुःसाध्यगुणेऽपि संयमे । जिघृत्सया ते त्वरते ह्ययं यमः, (ह्यसंयमः?) श्रयन् प्रमादान्न भवाबिभेषि किम् ? ॥ ४० ॥ हतं मनस्ते कुविकल्पजालैर्वचोऽप्यवद्यैश्च वपुः प्रमादैः । लब्धीश्च सिद्धीश्च तथापि वांछन् , मनोरथैरेव हहा !! हतोऽसि ॥ ४१ ॥ मनोवशस्ते सुखदुःखसंगमो, मनो मिलेद्यैस्तु तदात्मकं भवेत् । प्रमादचोरैरिति वार्यतां