________________
१३८ हीनोऽप्यरे भाग्यगुणैर्मुधात्मन् , वांछंस्तवार्चाद्यनवाप्नुवंश्च। ईय॑न् परेभ्यो लभसेऽतितापमिहापि याता कुगतिं परत्र ॥ १८ ।। गुणैविहीनोऽपि जनानतिस्तुतिप्रतिग्रहान् यन्मुदितः प्रतीच्छसि । लुलायगोऽश्वोष्ट्रखरादिजन्मभिर्विना, ततस्ते भविता न निष्क्रयः ॥ १९ ॥ गुणेषु नोद्यच्छसि चेन्मुने ! ततः, प्रगीयसे यैरपि वंद्यसेऽय॑से । जुगुप्सितां प्रेत्य गतिं गतोऽपि तैर्हसिष्यसे चाभिभविष्यसेऽपि वा ॥२०॥ दानमाननुतिवंदनापरैर्मोदसे, निकृतिरंजितैर्जनः । न त्ववैषि सुकृतस्य चेल्लवः, कोऽपि सोऽपि तव लुट्यते हि तैः ॥ २१ ॥ भवेद् गुणी मुग्धकृतैर्न हि स्तवैन ख्यातिदानार्चनवंदनादिभिः । विना गुणान्नौ भवदुःखसंक्षयस्ततो गुणानर्जय किं स्तवादिभिः ॥ २२ ॥ अध्येषि शास्त्र सदसद्विचि. त्रालापादिभिस्ताम्यसि वा समायैः । येषां जनानामिह रंजनाय, भवांतरे ते क मुने ! क च त्वम् ॥ २३ ॥ परिग्रहं चेद्वन्यजहा गृहादेस्तत्किं नु धर्मोपकृतिच्छलात्तम् । करोषि शय्योपधिपुस्तकादेगरोऽपि नामांतरतोऽपि हंता ॥ २४ ॥ परिग्रहात्स्वीकृतधर्मसाधनाभिधानमात्रात्किम मूढ ! तुष्यसि । न वेत्सि हेनाप्यतिभारिता तरी, निमज्जयत्यंगिनमंबुधौ द्रुतम् ॥ २५ ॥ येऽहःकषायकलिकर्मनिबंधभाजनं, स्युः पुस्तकादिभिरपीहितधर्मसाधनैः । तेषां रसायनवरैरपि सर्पदामयैरात्मिनां गदहृतेः सुखकृत्तु किं भवेत् ॥२६॥ रक्षार्थ खलु संयमस्य गदिता येऽर्था यतीनां जिनैर्वासःपुस्तकपात्रकप्रभृतयो धर्मोपकृत्यात्मकाः । मूर्छन्मोहवशात्त एव कुधियां संसारपाताय धिक् , स्वं स्वस्यैव वधाय शस्त्रमधियां यदुष्प्रयुक्तं भवेत् ॥ २७ ॥ संयमोपकरणच्छलात्परान्भारयन् यदसि पुस्तकादिभिः। गोखरोष्ट्रमहिषादिरूपभृत्तच्चिरं त्वमपि भारयिष्यसे ॥ २८ ॥ वस्त्रपात्रतनुपुस्तकादिनः, शोभया न खलु संयमस्य सा । आदिमा च ददते भवं परा, मुक्तिमाश्रय तदिच्छयैकिकाम् ॥२९॥ शीतातपा