________________
१३७
॥ ६॥ किं लोकसत्कृतिनमस्करणार्चनाद्यै, रे मुग्ध तुष्यसि विनापि विशुद्धयोगान् । कृतन भवांधुपतने तव यत्प्रमादो, बोधिद्रुमाश्रयमिमानि करोति पर्शन् ॥ ७ ॥ गुणांस्तवाश्रित्य नमंत्यमी जना, ददत्युपध्यालयभैल्यशिष्यकान् । विना गुणान् वेषमृषेबिभर्षि चेत् , ततष्ठकानां तव भाविनी गतिः ॥ ८॥ नाजीविकाप्रणयिनीतनयादिचिन्ता, नो राजभीश्च भगवत्समयं च वेत्सि । शुद्ध तथापि चरणे यतसे न भिक्षो ?, तत्ते परिग्रहभरो नरकार्थमेव ॥ ९ ॥ शास्त्रज्ञोऽपि धृतव्रतोऽपि गृहिणीपुत्रादिबंधोज्ज्ञितोऽप्यंगी यद्यतते प्रमादवशगो न प्रेत्यसौख्यश्रिये । तन्मोहद्विषतत्रिलोकजयिनः काचित्परा दुष्टता, वद्धायुष्कतया स वा नरपशुनूनं गमी दुर्गतौ ॥ १० ॥ उच्चारयस्यनुदिनं न करोमि सर्व, सावद्यमित्यसकृदेतदथो करोषि । नित्यं मृषोक्तिजिनवंचनभारितात्तत् , सावद्यतो नरकमेव विभावये ते ॥ ११ ॥ वेषोपदेशाद्युपधिप्रतारिता ददत्यभीष्टानृजवोऽधुना जनाः । भुंक्षे च शेषे च सुखं विचेष्टसे, भवांतरे ज्ञास्यसि तत्फलं पुनः ॥ १२ ॥ आजीविकादिविविधात्तिभृशानिशार्ताः, कृच्छ्रेण केऽपि महतैव सृजन्ति धर्मान् । तेभ्योऽपि निर्दय ! जिघृक्षसि सर्वमिष्ट, नो संयमे च यतसे भविता कथं ही ॥ १३ ॥ आराधितो वा गुणवान् स्वयं तरन् , भवाब्धिमस्मानपि तारयिष्यति । श्रयन्ति ये त्वामिति भूरिभक्तिभिः, फलं तवैषां च किमस्ति निर्गण ! ॥ १४ ॥ स्वयं प्रमादैनिपतन भवांबुधौ, कथं स्वभक्तानपि तारयिष्यसि ? । प्रतारयन् स्वार्थमजून शिवार्थिनः, स्वतोऽन्यतश्चैव विलुप्यसेंऽहसा ॥१५।। गृहणासि शय्याहतिपुस्तकोपधीन , सदा परेभ्यस्तपसस्त्वियं स्थितिः। तत्ते प्रमादाद्भरितात्प्रतिग्रहैऋणार्णमग्नस्य परत्र का गतिः ? ॥१६॥ न कापि सिद्धिर्न च तेऽतिशायि, मुने ! क्रियायोगतपःश्रुतादि । तथाप्यहंकारकदर्थितस्त्वं, ख्यातीच्छया ताम्यसि धिङ् मुधा किम् ? ॥१७॥