________________
१३६ शम् ? ॥ १३ ॥ चतुष्पदैः सिंह इव स्वजात्यैर्मिलन्निमांस्तारयतीह कश्चित् । सहैव तैर्मजति कोऽपि दुर्गे, शृगालवच्चेत्यमिलन् वरं सः ॥ १४ ॥ पूर्णे तटाके तृषितः सदैव, भृतेऽपि गेहे क्षुधितः स मूढः । कल्पद्रुमे सत्यपि ही दरिद्रो, गुर्वादियोगेऽपि हि यः प्रमादी ॥१५॥ न धर्मचिंता गुरुदेवभक्तिर्येषां न वैराग्यलवोऽपि चित्ते । तेषां प्रसूक्लेशफल: पशूनामिवोद्भवः स्यादुदरंभरीणाम् ॥१६॥ न देवकार्ये न च संघकार्य, येषां धनं नश्वरमाशु तेषाम्। तदर्जनाद्यैर्वजिनैर्भवांधी, पतिष्यतां किं त्ववलंबनं स्यात् ? ॥१७॥
अथ त्रयोदशो यतिशिक्षोपदेशाधिकारः ते तीर्णा भववारिधिं मुनिवरास्तेभ्यो नमस्कुर्महे, येषां नो विषयेषु गृध्यति मनो नो वा कषायैः सुतम् । रागद्वेषविमुक् प्रशांतकलुषं साम्याप्तशर्माद्वयं, नित्यं खेलति चात्मसंयमगुणाक्रीडे भजद्भावनाः ॥ १ ॥ स्वाध्यायमाधित्ससि नो प्रमादैः, शुद्धा न गुप्तीः समितीश्च धत्से । तपो द्विधा नार्जसि देहमोहादल्पेऽपि हेतौ दधसे कषायान् ॥ २ ॥ परीषहान्नो सहसे न चोपसर्गान्न शीलांगधरोऽपि चासि । तन्मोक्ष्यमाणोऽपि भवाब्धिपारं, मुने ! कथं यास्यसि वेषमात्रात् ॥ ३॥ युग्मम् ॥ आजीविकार्थमिह यद्यतिवेषमेष, धत्से चरित्रममलं न तु कष्टभीरुः । तद्वेत्सि किन्न ? न बिभेति जगजिघृक्षुमृत्युः कुतोऽपि नरकश्च न वेषमामात्रात् ॥ ४ ॥ वेषेण माद्यसि यतेश्वरणं विनात्मन् !, पूजां च वांछसि जनाद्बहुधोपधिं च । मुग्धप्रतारणभवे नरकेऽसि गंता, न्यायं बिभर्षि तदजागलकर्तरीयम् ॥ ५ ॥ जानेऽस्ति संयमतपोभिरमीभिरात्मन्नस्य प्रतिग्रहभरस्य न निष्क्रयोऽपि । किं दुर्गतौ निपततः शरणं तवास्ते ?, सौख्यं च दास्यति परत्र किमित्यवेहि