________________
भवी न धर्मैरविधिप्रयुक्तैर्गमी शीबं येषु गुरुर्न शुद्धः । रोगी हि कल्यो न रसायनैस्तैर्येषां प्रयोक्ता भिषगेव मूढः ॥ २ ॥ समाश्रितस्तारकबुद्धितो यो, यस्यास्त्यहो मजयिता स एव । ओचं तरीता विषमं कथं स, तथैव जंतुः कुगुरोर्भवाब्धिम् ॥ ३ ॥ गजा वपोतोक्षरथान् यथेष्टपदाप्तये भद्र ! निजान परान् वा । भजति विज्ञाः सुगुणान् भजैवं, शिवाय शुद्धान् गुरुदेवधर्मान ॥ ४ ॥ फलाद् वृथा स्युः कुगुरुपदेशतः, कृता हि धर्मार्थमपीह सूद्यमाः । तदृष्टिरागं परिमुच्य भद्र ! हे, गुरु विशुद्ध भज चेद्धितार्थ्यसि ॥ ५ ॥ न्यस्ता मुक्तिपथस्य वाहकतया श्रीवीर ! ये प्राक् त्वया, लुटाकास्त्वदृतेऽभवन बहुतरास्त्वच्छासने ते कलौ। बिभ्राणा यतिनाम तत्तनुधियां मुष्णंति पुण्यश्रियः, पूत्कुर्मः किमराज्यके ह्यपि तलारक्षा न किं दस्यवः ? ॥ ६ ॥ माद्यस्यशुध्धैर्गरुदेवधर्मेंर्धिग् दृष्टिरागेण गुणानपेक्षः । अमुत्र शोचिष्यसि तत्फले तु, कुपथ्यभोजीव महामयातः ॥ ७ ॥ नानं सुसिक्तोऽपि ददाति निंबकः, पुष्टा रसैवध्यगवी पयो न च । दुःस्थो नृपो नैव सुसेवितः श्रियं, धर्म शिवं वा कुगुरुर्न संश्रितः ॥ ८ ॥ कुलं न जातिः पितरौ गणो वा, विद्या च बंधुः स्वगुरुर्धनं वा । हिताय जंतोर्न परं च किंचित् , किंत्वादृताः सद्गुरुदेवधर्माः ॥ ९ ॥ माता पिता स्वः सुगुरुश्च तत्त्वात्, प्रबोध्य यो योजति शुद्धधर्मे । न तत्समोऽरिः क्षिपते भवाब्धौ, यो धर्मविघ्नादिकृतेश्च जीवम् ॥१०॥ दाक्षिण्यलज्जे गुरुदेवपूजा, पित्रादिभक्तिः सुकृताभिलाषः । परोपकारव्यवहारशुद्धी, नृणामिहामुत्र च संपदे स्युः ॥ ११॥ जिनेष्वभक्तियतिनामवज्ञा, कर्मस्वनौचित्यमधर्मसंगः । पित्राापेक्षा परवंचनञ्च, सृजन्ति पुंसां विपदः समन्तात् ॥ १२ ॥ भक्त्यैव नार्चसि जिनं सुगुरोश्च धर्म, नाकर्णयस्यविरतं विरतीन धत्से । सार्थ निरर्थमपि च प्रचिनोष्यघानि, मूल्येन केन तदमुत्र समीहसे