________________
१३४
सुस्थिरास्ततः ॥ ४ ॥ प्रमोदसे स्वस्य यथान्यनिमितैः स्तवैस्तथा चेत्प्रतिपंथिनामपि । विगर्हणैः स्वस्य यथोपतप्यसे, तथा रिपूणामपि चेत्ततोऽसि वित् ॥ ५ ॥ स्तवैर्यथा स्वस्य विगर्हणैश्च, प्रमोदतापौ भजसे तथा चेत् । इमौ परेषामपि तैश्चतुर्ध्वप्युदासतां वासि ततोऽर्थवेदी ॥ ६ ॥ भवेन्न कोऽपि स्तुतिमात्रतो गुणी, ख्यात्या न बह्व्यापि हितं परत्र च । तदिच्छुरीर्ष्यादिभिरायति ततो, मुधाभिमानग्रहिलो निहंसि किम् ॥ ७ ॥ सृजन्ति के के न बहिर्मुखा जनाः प्रमादमात्सर्यकुबोधविप्लुताः । दानादिधर्माणि मलीमसान्यमृन्युपेक्ष्य शुद्ध सुकृतं चराऽण्वपि ॥ ८ ॥ भच्छादितानि सुकृतानि यथा दध॑ते, सौभाग्यमत्र न तथा प्रकटीकृतानि । व्रीडानतानन सरोजसरोजनेत्रावक्षःस्थलानि कलितानि यथा दुकूलैः . ॥ ९ ॥ स्तुतैः श्रुतैर्वाप्यपरैर्निरीक्षितैर्गुणस्तवात्मन् ! सुकृतैर्न कश्चन । फलन्ति नैव प्रकटीकृतैर्भुवो, द्रुमा हि मूलैर्निपतंत्यपि त्वधः ॥ १० ॥ तपः क्रियावश्यकदानपूजनैः, शिवं न गंता गुणमत्सरी जनः । अपश्यभोजी न निरामयो भवेद्रसायनैरप्यतुलैर्यदातुरः ॥ ११ ॥ मन्त्रप्रभारत्नरसायनादिनिदर्शनादरूपमपीह शुद्धम् । दानाचेनावश्यक पौषधादि, महाफलं पुण्यमितोऽन्यथान्यत् ॥ १२ ॥ दीपो यथाल्पोऽपि तमांसि हन्ति, लवोऽपि रोगान् हरते सुधायाः । तृण्यां दहत्याशु कणोऽपि चाग्नेर्धर्मस्य लेशोऽप्यमलस्तथाँहः ॥१३॥ भावोपयोगशून्याः, कुर्वन्नावश्यकीः क्रियाः सर्वाः देहक्लेशं लभसे, फलमाप्स्यसि नैव पुनरासा ॥ १४ ॥
अथ द्वादशो देवगुरुधर्मशुद्धचधिकारः
तत्त्वेषु सर्वेषु गुरुः प्रधानं हितार्थधर्मा हि तदुक्तिसाध्याः । श्रयंस्तमेवेत्यपरीक्ष्य मूढ !, धर्मप्रयासान् कुरुषे वृथैव ॥ १ ॥