________________
१३३
करोषि तानि, यैस्ते भवित्र्यो विपदो ह्यनंताः । ताभ्यो भिया तद्दधसेऽधुना किं ?, संभाविताभ्योऽपि भृशाकुलत्वम् ॥ २० ॥ ये पालिता वृद्धिमताः सहैव, स्निग्धा भृशं स्नेहपदं च ये ते । यमेन तानप्यदयं गृहीतान , ज्ञात्वापि किं न त्वरसे हिताय ? ॥ २१ ॥ यैः क्लिश्यसे त्वं धनबंध्वपत्ययशःप्रभुत्वादिभिराशयस्थैः । कियानिह प्रेत्य च तैगुणस्ते, साध्यः किमायुश्च विचारयैवम् ॥ २२ ॥ किमु मुह्यसि गत्वरैः पृथक् , कृपणैबंधुवपुःपरिग्रहैः । विमृशस्व हितोपयोगिनोऽवसरेऽस्मिन् परलोकपांथ ! रे ॥ २३ ॥ सुखमास्से सुखं शेषे, भुंक्षे पिबसि खेलसि । न जाने त्वग्रतः पुण्यैर्विना ते किं भविष्यति ? ॥ २४ ॥ शीतात्तापान्मक्षिकाकतृणादिस्पर्शाद्युत्थात्कष्टतोऽल्पाबिभेषि । तास्ताश्चैभिः कर्मभिः स्वीकरोषि, श्वभ्रादीनां वेदना धिग् धियं ते ॥२५॥ कचित्कषायैः कचन प्रमादैः, कदाग्रहैः कापि च मत्सराद्यैः । आत्मानमात्मन् कलुषीकरोषि, बिभेषि धिङ् नो नरकादधर्मा ॥ २६ ॥
00%
अथैकादशो धर्मशुद्धयुपदेशाधिकारः भवेद्भवापायविनाशनाय यः, तमज्ञ ! धर्म कलुषीकरोषि किम् ? । प्रमादमानोपधिमत्सरादिभिर्न मिश्रितं ह्यौषधमामयापहम् ॥ १ ॥ शैथिल्यमात्सर्यकदाग्रहक्रुधोऽनुतापदंभाविधिगौरवाणि च। प्रमादमानौ कुगुरुः कुसंगतिः, 'लाघार्थिता वा सुकृते मला इमे ॥ २ ॥ यथा तवेष्टा स्वगुणप्रशंसा, तथा परेषामिति मत्सरोज्झी। तेषामिमां संतनु यल्लभेथास्तां नेष्टदानादि(द्धि?) विनेष्टलाभः ॥३॥ जनेषु गृहणत्सु गुणान् प्रमोदसे, ततो भवित्री गुणरिक्तता तव । गृहणत्सु दोषान् परितप्यसे च चेद्, भवन्तु दोषास्त्वयि