________________
१३२
दुःखक्षयः कर्हि चित् ॥ ७ ॥ गुणस्तुतीवाछसि निर्गुणोऽपि, सुखप्रतिष्ठादि विनापि पुण्यम् । अष्टांगयोगं च विनापि सिद्धीर्वातूलता कापि नवा तवात्मन् ॥ ८॥ पदे पदे जीव ! पराभिभूतिः, पश्यन् किमीय॑स्यधमः परेभ्यः । अपुण्यमात्मानमवैषि किं न, तनोषि किं वा नहि पुण्यमेव ॥ ९ ॥ किमर्दयन्निर्दयमंगिनो लघून , विचेष्टसे कर्मसु ही प्रमादतः । यदेकशोऽप्यन्यकृतार्दनः सहत्यनंतशोऽप्यंग्ययमर्दनं भवे ॥ १०॥ यथा सर्पमुखस्थोऽपि, भेको जंतूनि भक्षयेत् । तथा मृत्युमुखस्थोऽपि, किमात्मन्नर्दसेंऽगिनः ॥११॥ आत्मानमल्पैरिह वंचयित्वा, प्रकल्पितैर्वा तनुचित्तसौख्यः। भवाधमे किं जन ! सागराणि, सोढासि ही नारकदुःखराशीन ॥ १२ ॥ उरभ्रकाकिण्युदबिंदुकाम्रवणित्रयीशाकटभिक्षुकाद्यैः । निदर्शनारितमर्त्यजन्मा, दुःखी प्रमादैर्बहु शोचितासि ॥ १३ ॥ पतंगभूगैणखगाहिमीनद्विपद्विपारिप्रमुखाः प्रमादैः । शोच्या यथा स्युम॒तिबंधदुःखैश्विराय भावी त्वमपीति जंतो! ॥ १४ ॥ पुरापि पापैः पतितोऽसि दुःखराशौ पुनर्मूढ ! करोषि तानि । मजन्महापंकिलवारिपूरे, शिला निजे मूनि गले च धत्से ॥ १५ ॥ पुनः पुनर्जीव ! तवोपदिश्यते, बिभेषि दुःखात्सुखमीहसे चेत् । कुरुष्व तत्किंचन येन वांछितं, भवेत्तवास्तेऽवसरोऽयमेव यत ॥ १६ ॥ धनांगसौख्यस्वजनानसूनपि, त्यज त्यजैक न च धर्ममाईतम् । भवन्ति धर्माद्धि भवे भवेऽर्थितान्यमून्यमीभिः पुनरेष दुर्लभः ॥ १७ ॥ दुःखं यथा बहुविधं सहसेऽप्यकामः, कामं तथा सहसि चेत्करुणादिभावैः । अल्पीयसापि तव तेन भवांतरे स्यादात्यंतिकी सकलदुःखनिवृत्तिरेव ॥१८॥ प्रगल्भसे कर्मसु पापकेष्वरे, यदाशया शर्म न तद्विनानितम् । विभावयंस्तञ्च विनश्वरं द्रुतं, बिभेषि किं दुर्गतिदुःखतो नहि ? ॥ १९ ॥ कर्माणि रे जीव !