________________
नरके स नूनम् ॥ १४॥ योगस्य हेतुर्मनसः समाधिः, परं निदानं तपसश्च योगः । तपश्च मूलं शिवशर्मवल्या, मनःसमाधिं भज तत्कथंचित् ॥ १५ ॥ स्वाध्याययोगैश्वरणक्रियासु, व्यापारणैादशभावनाभिः । सुधीस्त्रियोगीसदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुंध्यात् ॥ १६ ॥ भावनापरिणामेषु, सिंहेष्विव मनोवने । सदा जाग्रत्सु दुर्ध्यानसूकरा न विशंत्यपि ॥ १७ ॥
अथ दशमो वैराग्योपदेशाधिकारः. किं जीव माद्यसि हसस्ययमीहसेऽर्थान् , कामांश्च खेलसि तथा कुतुकैरशंकः । चिक्षिप्सु घोरनरकावटकोटरे त्वामभ्यपतल्लघु विभावय मत्युरक्षः ॥१॥ आलंबनं तव लवादिकुठारघाता: छिंदंति जीविततरुन हि यावदात्मन् । तावद्यतस्व परिणामहिताय तस्मिन् , छिन्ने हि कः क च कथं भविता स्वतंत्रः ॥२॥ त्वमेव मोग्धा मतिमान त्वमात्मन, नेष्टाप्यनेष्टा सुखदुःखयोस्त्वम् । दाता च भोक्ता च तयोस्त्वमेव, तचेष्टसे किं ? न यथा हिताप्तिः ॥ ३ ॥ कस्ते निरंजन ! चिरं जनरंजनेन, धीमन् ! गुणोऽरित परमार्थदृशेति पश्य । तं रंजयाशु विशदैश्चरितैर्भवाब्धी, यस्त्वां पतंतमबलं परिपातुमीष्टे ॥ ४ ॥ विद्वानहं सकललब्धिरहं नृपोऽहं, दाताहमद्भुतगुणोऽहमहं गरीयान् । इत्याद्यहंकृतिवशा परितोषमेषि, नो वेत्सि किं परभवे लघुतां भवित्रीम् ॥ ५ ॥ वेत्सि स्वरूपफलसाधनबाधनानि, धर्मस्य, तं प्रभवसि स्ववशश्च कर्तुम् । तस्मिन् यतस्व मतिमन्नधुनेत्यमुत्र, किंचित्त्वया हि नहि सेत्स्यति भोत्स्यते वा ॥ ६॥ धर्मस्याऽवसरोऽस्ति पुद्गलपरावरनंतैस्तवाऽऽयातः संप्रति जीव हे प्रसहतो दुःखान्यनंतान्ययम् । स्वल्पाहः पुनरेष दुर्लभतमश्चास्मिन् यतस्वाहतो, धर्म कर्तुमिमं विना हि नहि ते