________________
१३०
क्षिपसे भवे माम् । बद्धोंऽजलिः कुरु कृपां भज सद्विकल्पान्, मैत्रीं कृतार्थय यतो नरकादिबभेमि ॥ २ ॥ स्वर्गापवर्गों नरकं तथान्तर्मुहूर्तमात्रेण वशावशं यत् । ददाति जन्तोः सततं प्रयत्नात्, वशं तदंतःकरणं कुरुष्व ॥ ३ ॥ सुखाय दुःखाय च नैव देवा, न चापि कालः सुहृदोऽरयो वा भवेत्परं मानसमेव जंतोः, संसारचक्रभ्रमणैकहेतुः || ४ || वशं मनो यस्य समाहितं स्यात्, किं तस्य कार्य नियमैर्यमैश्च ? । हतं मनो यस्य च दुर्विकल्पैः, किं तस्य कार्यं नियमैर्यमैश्च ? ॥ ५ ॥ दानश्रुतध्यानतपोऽर्चनादि, वृथा मनोनिग्रहमंतरेण । कषायचिंताकुलतोज्झितस्य, परो हि योगो मनसो वशत्वम् ॥ ६ ॥ जपो न मुक्त्यै न तपो द्विभेदं, न संयमो नापि दमो न मौनम् । न साधनाद्यं पवनादिकस्य, किंत्वेकमंत:करणं सुदान्तम् ॥ ७ ॥ लब्ध्वापि धर्मं सकलं जिनोदितं, सुदुर्लभं पोतनिभं विहाय च । मनः पिशाचग्रहिलीकृतः पतन्, भवांबुधौ नातिदृग् जडो जनः ॥ ८ ॥ सुदुर्जयं ही रिपवत्यदो मनो, रिपूकरोत्येव च वाक्तनू अपि । त्रिभिर्हतस्तद्रिपुभिः करोतु किं, पदीभवन् दुर्विपदां पदे पदे ।। ९ ।। रे चित्त ! वैरि ! तव किं नु मयापराद्ध, यद्गतौ क्षिपसि मां कुविकल्पजालैः । जानासि मामयमपास्य शिवेऽस्ति गंता तत्किं न सन्ति तव वासपदं ह्यसंख्याः || १० || पूतिश्रुतिः वेव रतेविंदरे, कुष्टीव संपत्सुदृशामनर्हः । श्वपाकवत्सद्गतिमंदिरेषु, नार्हेत्प्रवेशं कुमनोहतोऽङ्गी ॥ ११ ॥ तपोजपाद्याः स्वफलाय धर्मा, न दुर्विकल्पैर्हतचेतसः स्युः । तत्खाद्यपेयैः सुभृतेऽपि गेहे, क्षुधातृषाभ्यां म्रियते स्वदोषात् || १२ || अकृच्छ्रसाध्यं मनसो वशीकृतात् परं च पुण्यं, न तु यस्य तद्वशम् । स वंचितः पुण्यचयैस्तदुद्भवैः फलैश्व ही ! ही ! हतकः करोतु किम् १ || १३ || अकारणं यस्य च दुर्विकल्पैर्हतं मनः शास्त्रविदोऽपि घोरैरन| यिम् धैर्निश्चितनारकायुमृत्यो प्रयाता