SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२९ किं व्यसनतोऽस्य तु दुर्विकल्पैर्यो दुःस्थितोऽत्र सदनुष्ठितिषु प्रमादी ॥ ८ ॥ अधीतिमात्रेण फलंति नागमाः, समीहितैर्जीव सुखैर्भवान्तरे । स्वनुष्ठितैः किंतु तदीरितैः खरो, न यत्सिताया वहनश्रमात्सुखी ॥ ९ ॥ दुर्गेधतो यदणुतोऽपि पुरस्य मृत्युरायूंषि सागरमितान्यनुपक्रमाणि । स्पर्शः खरः कचतोऽतितमामितश्च, दुःखावनंतगुणितौ भृशशैत्यतापौ ॥ १० ॥ तीव्रा व्यथाः सुरकृता विविधाश्च यत्रानंदारवैः सततमभ्रभृतोऽप्यमुष्मात् । किं भाविनो न नरकात्कुमते बिभेषि, यन्मोदसे क्षणसुखैर्विषयैः कषायी ॥११॥ युग्मम् ॥ बंधोऽनिशं वाहनताडनानि, क्षुत्तृड्दुरामातपशीतवाताः । निजान्यजातीयभयापमृत्युदुःखानि तिर्यश्विति दुस्सहानि ॥ १२ ॥ मुधान्यदास्याभिभवाभ्यसूया भियोऽन्तगर्भस्थितिदुर्गतीनाम् । एवं सुरेष्वप्यसुखानि नित्यं, किं तत्सुखैर्वा परिणामदुःखैः ॥ १३ ॥ सप्तभीत्यभीभवेष्टविसवानिष्टयोगगददुःसुतादिभिः । स्याचिरं विरसता नजन्मनः, पुण्यतः सरसतां तदानय ॥ १४ ॥ इति चतुगैतिदुःखततीः कृतिन्नतिभयास्त्वमनंतमनेहसम् । हृदि विभाव्य जिनोक्तकृतांततः, कुरु तथा न यथा स्युरिमास्तव ॥ १५ ॥ आत्मन् परस्त्वमसि साहसिकः श्रुताक्षैर्यद्भाविनं चिरचतुर्गतिदुःखराशिम् । पश्यन्नपीह न बिभेषि ततो न तस्य, विच्छित्तये च यतसे विपरीतकारी ॥ १६ ॥ अथ नवमश्चित्तदमनाधिकारः कुकर्मजालैः कुविकल्पसूत्रजैर्निबध्य गाढं नरकाग्निभिश्विरम् । विसारवत् पक्ष्यति जीव ! हे मनःकैवर्तकस्त्वामिति मास्य विश्वसीः : ॥ १ ॥ चेतोऽर्थये मयि चिरत्नसखे ! प्रसीद, किं दुर्विकल्पनिकरैः
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy