________________
१२०
प्रमादेस्तनुभिश्च पुण्यधनं न किं वेत्स्यपि लुट्यमानम् ॥ २० ॥ मृत्योः कोऽपि न रक्षितो न जगतो दारिद्यमुत्रासितं, रोगस्तेनन्पादिजा न च भियो निर्णाशिताः षोडश । विध्वस्ता नरका न नापि सुखिता धर्मैत्रिलोकी सदा, तत्को नाम गुणो मदश्च विभुता का ते स्तुतीच्छा च का ॥ २१ ॥
अथाष्टमः शास्त्रगुणाधिकारः शिलातलाभे हृदि ते वहंति, विशंति सिद्धान्तरसा न चान्तः । यदत्र नो जीवदयार्द्रता ते, न भावनांकुरततिश्च लभ्या ॥ १ ॥ यस्यागमांभोदरसैन धौतः, प्रमादपंकः स कथं शिवेच्छुः । रसायनैर्यस्य गदाः क्षता नो, सुदुर्लभं जीवितमस्य नूनम् ॥ २ ॥ अधीतिनोऽर्चादिकृते जिनागमः, प्रमादिनो दुर्गतिपापतेमधा । ज्योतिर्विमूढस्य हि दीपपातिनो, गुणाय कस्मै शलभस्य चक्षुषी ॥ ३ ॥ मोदन्ते बहुतर्कतर्कणचणाः केचिजयाद्वादिनां, काव्यैः केचन कल्पितार्थघटनैस्तुष्टाः कविख्यातितः । ज्योतिर्नाटकनीतिलक्षणधनुर्वेदादिशास्त्रैः परे, ब्रूमः प्रेत्यहिते तु कर्मणि जडान कुक्षिभरीनेव तान् ॥ ४ ॥ किं मोदसे पंडितनाममात्रात्, शास्त्रेध्वधीती जनरंजकेषु । तत्चिनाधीष्व कुरुष्व चाशु, न ते भवेद्येन भवाब्धिपातः ॥ ५ ॥ धिगागमैर्माद्यसि रंजयन् जनान् , नोद्यच्छसि प्रेत्यहिताय संयमे । दधासि कुक्षिभरिमात्रतां मुने, क ते क तत् क्वैष च ते भवांतरे ॥ ६ ॥ धन्याः केऽप्यनधीतिनोऽपि सदनुष्ठानेषु बद्धादरा, दुःसाध्येषु परोपदेशलवतः श्रद्धानशुद्धाशयाः । केचित्त्वागमपाठिनोऽपि दधतस्तत्पुस्तकान् येऽलसाः अत्रामुत्रहितेषु कर्मसु कथं ते भाविन प्रेत्यहाः ॥ ७ ॥ धन्यः स मुग्धमतिरप्युदितार्हदाज्ञारागेण यः सृजति पुण्यमदुर्विकल्पः । पाठेन