________________
Iltale
१२७ प्रदत्ते ॥ ७ ॥ सम्यग्विचार्येति विहाय मानं, रक्षन् दुरापाणि तपांसि यत्नात् । मुदा मनीषी सहतेऽभिभूतीः, शूरः क्षमायामपि नीचजाताः ।। ८ ॥ पराभिभूत्याल्पिकयापि कुप्यस्यधैरपीमां प्रतिकर्तुमिच्छन् । न वेत्सि तिर्यनरकादिकेषु, तास्तैरनंतास्त्वतुला भवित्रीः ॥९॥ धत्से कृतिन् ! यद्यपकारकेषु, क्रोधं ततो घेडरिषट्क एव । अथोपकारिष्वपि तद्भवार्तिकृत्कर्महन्मित्रबहिर्विषत्सु ॥ १० ॥ अधीत्यनुष्ठानतपःशमाद्यान , धर्मान् विचित्रान् विदध. समायान् । न लप्स्यसे तत्फलमात्मदेहक्लेशाधिकं तांश्च भवांतरेषु ॥ ११ ॥ सुखाय धत्से यदि लोभमात्मनो, ज्ञानादिरत्नत्रितये विधेहि तत् । दुःखाय चेदत्र परत्र वा कृतिन् , परिग्रहे तबहिरांतरेऽपि च ॥ १२ ॥ करोषि यत्प्रेत्यहिताय किंचित् , कदाचिदल्पं सुकृतं कथंचित् । माऽजीहरस्तन्मदमत्सरायैर्विना च तन्मा नरकातिथिर्भूः॥ १३ ॥ पुरापि पापैः पतितोऽसि संसृतौ, दधासि रे किं गुणिमत्सरं पुनः । न वेत्सि किं घोरजले निपात्यसे, नियंत्र्यसे शृंखलया च सर्वतः ॥ १४ ॥ कष्टेन धर्मो लवशो मिलत्ययं, क्षयं कषायैर्युगपत् प्रयाति च । अतिप्रयत्नार्जितमर्जुनं ततः, किमज्ञ ! ही हारयसे नभस्वता ॥ १५ ॥ शत्रूभवन्ति सुहृदः कलुषीभवन्ति, धर्मा यशांसि निचितायशसीभवन्ति । स्निह्यन्ति नैव पितरोऽपि च बांधवाश्च, लोकद्वयेऽपि विपदो भविनां कषायैः ॥ १६ ॥ रूपलाभकुलविक्रमविद्याश्रीतपोवितरणप्रभुताद्यैः । किं मदं वहसि वेत्सि न, मूढाऽनंतशः स्वभृशलाघवदुःखम् ॥ १७ ॥ विना कषायान्न भवार्त्तिराशिर्भवेद्भवेदेव च तेषु सत्सु । मूलं हि संसारतरोः कषायास्तत्तान् विहायैव सुखी भवात्मन् ॥ १८ ॥ समीक्ष्य तिर्यनरकादिवेदनाः, श्रुतेक्षणैर्धर्मदुरापतां तथा। प्रमोदसे यद्विषयैः सकौतुकैस्ततस्तवात्मन् ! विफलैव चेतना ॥ १९ ॥ चौरस्तथा कर्मकरैगृहीते, दुष्टैः स्वमात्रेऽप्युपतप्यसे त्वम् । पुष्टः