________________
१२६ कषायविषयेषु मानसं, श्लिष्यते बुध विचिंतयेति ताः ॥ ५ ॥ वध्यस्य चौरस्य यथा पशोर्वा, संप्राप्यमाणस्य पदं वधस्य । शनैः शनैरेति मृतिः समीपं, तथाखिलस्येति कथं प्रमादः ॥ ६ ॥ बिभेषि जंतो ! यदि दुःखराशेस्तदिद्रियार्थेषु रतिं कृथा मा । तदुद्भवं नश्यति शर्म यद्राक, नाशे च तस्य ध्रुवमेव दुःखम् ॥७॥ मृतः किमु प्रेतपतिर्दरामया, गताः क्षयं किं नरकाश्च मुद्रिताः । ध्रुवाः किमायुर्धनदेहबंधवः, सकौतुको यद्विषयैर्विमुह्यसि ॥ ८ ॥ विमोहसे किं विषयप्रमादैर्धमात्सुखस्यायतिदुःखराशेः । तद्र्धमुक्तस्य हि यत्सुखं ते गतोपमं चायतिमुक्तिदं तत् ॥ ९ ॥
अथ सप्तमः कषायत्यागाधिकारः रे जीव ! सेहिथ सहिष्यसि च व्यथास्तास्त्वं नारकादिषु पराभवभूः कषायैः । मुग्धोदितैः कुवचनादिभिरप्यतः किं, क्रोधानिहंसि निजपुण्यधनं दुरापम् ॥ १ ॥ पराभिभूतौ यदि मानमुक्तिस्ततस्तपोऽखंडमतः शिवं वा। मानादृतिदेवचनादिभिश्चेत्तपःक्षयस्तन्नरकादि दुःखम् ॥ २ ॥ वैरादि चात्रेति विचार्य लाभालाभौ कृतिन्नाभवसंभविन्याम् । तपोऽथवा मानमवा(था?)भिभूताविहास्ति नूनं हि गतिधैिव ॥ ३ ॥ श्रुत्वाक्रोशान् यो मुदा पूरितः स्यात् , लोष्टाधैर्यश्चाहतो रोमहर्षी । यः प्राणान्तेऽप्यन्यदोषं न पश्यत्येष श्रेयो द्राग् लभेतैव योगी ॥ ४ ॥ को गुणस्तव कदा च कषायैनिर्ममे भजसि नित्यमिमान् यत् । किं न पश्यसि दोषममीषां, तापमत्र नरकं च परत्र ॥५॥ यत्कषायजनितं तव सौख्यं, यत्कषायपरिहानिभवं च । तद्विशेषमथवैतदुदक, संविभाव्य भज धीर विशिष्टम् ॥ ६ ॥ सुखेन साध्या तपसां प्रवृत्तिर्यथा तथा नैव तु मानमुक्तिः । आद्या न दत्तेऽपि शिवं परा तु, निदर्शनाबाहुबले: