________________
१२५
ततो न कुरुषे किमु पुण्यमेव । शक्यं न रक्षितुमिदं हि न दुःखभीतिः पुण्यं विना क्षयमुपैति च वञिणोऽपि ॥ ३ ॥ देहे विमुह्य कुरुषे किमघं न वेत्सि, देहस्थ एव भजसे भवदुःखजालम् । लोहाश्रितो हि सहते घनघातमग्निर्बाधा न तेऽस्य च नभोवदनाश्रयत्वे ॥ ४ ॥ दुष्टः कर्मविपाकभूपतिवशः कायाह्वयः कर्मकृत् , बद्ध्वा कर्मगुणैर्हृषीकचषकैः पीतप्रमादासवम् । कृत्वा नारकचारकापदुचितं त्वां प्राप्य चाशु च्छलं, गन्तेति स्वहिताय संयमभरं तं वाहयाल्पं ददत् ॥ ५॥ यतः शुचीन्यप्यशुचीभवन्ति । कृम्याकुलात्काकशुनादिभक्ष्यात् । द्रागभाविनो भस्मतया ततोऽगात्, मांसादिपिंडात् स्वहितं गृहाण ॥ ६ ॥ परोपकारोऽस्ति तपो जपो वा, विनश्वराद्यस्य फलं न देहात् । सभाटकादल्पदिनाप्तगेहमृम्पिडमूढः फलमश्रुते किम् ॥ ७॥ मृत्पिंडरूपेण विनश्वरेण, जुगुप्सनीयेन गदालयेन । देहेन चेदात्महितं सुसाध, धर्मान्न किं तद्यतसेऽत्र मूढ ! ॥ ८ ॥
अथ षष्ठो विषयप्रमादत्यागाधिकारः अत्यल्पकल्पितसुखाय किमिन्द्रियार्थस्त्वं मुह्यसि प्रतिपदं प्रचुर प्रमादः। एते क्षिपन्ति गहने भवभीमकक्षे, जंतुन्न यत्र सुलभा शिवमार्गदृष्टिः ।। १॥ आपातरम्ये परिणामदुःखे, सुखे कथं वैषयिके रतोऽसि । जडोऽपि कार्य रचयन् हितार्थी, करोति विद्वन् यदुदकतर्कम् ॥२॥ यदिन्द्रियार्थैरिह शर्म बिंदुवद्यदर्णवत्स्वःशिवगं परत्र च । तयोमिथोऽस्ति प्रतिपक्षता कृतिन् , विशेषदृष्टयान्यतरद् गृहाण तत् ॥ ३ ॥ भुंक्ते कथं नारकतिर्यगादिदुःखानि देहीत्यवधेहि शास्त्रैः । निवर्तते ते विषयेषु तृष्णा, बिभेषी पापप्रचयाच येन ॥ ४ ॥ गर्भवासनरकादिवेदनाः, पश्यतोऽनवरतं श्रुतेक्षणैः । नो