________________
१२४ अथ चतुर्थो धनममत्वमोचनाधिकारः याः सुखोपकृतिकृत्वधिया त्वं, मेलयनसि रमा ममताभाक् । पाप्मनोऽधिकरणत्वत एता, हेतवो ददति संसृतिपातम् ॥ १ ॥ यानि द्विषामप्युपकारकाणि, सर्पोन्दुरादिष्वपि यैर्गतिश्च । शक्या च नापन्मरणामयाद्या, हन्तुं धनेष्वेषु क एव मोहः ॥ २॥ ममत्वमात्रेण मनःप्रसादसुखं धनैरल्पकमल्पकालम् । आरंभपापैः सुचिरं तु दुःखं, स्यादुर्गतौ दारुणमित्यवेहि ॥ ३ ॥ द्रव्यस्तवात्मा धनसाधनो न धर्मोऽपि सारंभतयातिशुद्धः । निःसंगतात्मा त्वतिशुद्धयोगात्, मुक्तिश्रियं यच्छति तद्भवेऽपि ॥ ४ ॥ क्षेत्रवास्तुधनधान्यगवावैर्मेलितैः सनिधिभिस्तनुभाजाम् । क्लेशपापनरकाभ्यधिकः म्यात्को गुणो न यदि धर्मनियोगः ॥ ५ ॥ आरंभैर्भरितो निमजति यतः प्राणी भवांभोनिधावीहंते कुनपादयश्च पुरुषा येन च्छलाद्वाधितुम् । चिंताव्याकुलताकृतेश्च हरते यो धर्मकर्मस्मृति, विज्ञा! भूरिपरिग्रहं त्यजत तं भोग्यं परैः प्रायशः ॥ ६॥ क्षेत्रेषु नो वपसि यत्सदपि स्वमेतद्यातासि तत्परभवे किमिदं गृहीत्वा । तस्यार्जनादिनिताघचयार्जितात्ते, भावी कथं नरकदुःखभराच मोक्षः ॥ ७ ॥
अथ पंचमो देहममत्वमोचनाधिकारः पुष्णासि यं देहमघान्यचिंतयंस्तवोपकारं कमयं विधास्यति । कर्माणि कुर्वन्निति चिंतयायतिं, जगत्ययं पंचयते हि धूर्तराट् ॥१॥ कारागृहाद्बहुविधाशुचितादिदुःखान्निर्गतुमिच्छति जडोऽपि हि तद्विभिद्य । क्षिप्तस्ततोऽधिकतरे वपुषि स्वकर्मवातेन तद्रढयितुं यतसे किमान्मन् ॥ २॥ चेद्वांछसीदमवितुं परलोकदुःखभीत्या