________________
१२३
॥१॥ चर्मास्थिमजान्त्रवसास्रमांसामेध्यायशुच्यस्थिरपुद्गलानाम् । स्त्रीदेहपिंडाकृतिसंस्थितेषु, स्कंधेषु किं पश्यसि रम्यमात्मन् ॥२॥ विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोटितनासिकस्त्वम् । भृतेषु तेनैव विमूढ योषावपुःषु तत्किं कुरुषेऽभिलाषम् ॥ ३ ॥ अमेध्यमांसास्रवसात्मकानि, नारीशरीराणि निषेवमाणाः । इहाप्यपत्यद्रविणादिचिंतातापान परत्र प्रति दुर्गतींश्च ॥ ४ ॥ अङ्गेषु येषु परिमुद्यसि कामिनीनां, चेतः प्रसीद विश च क्षणमंतरेषाम् । सम्यक् समीक्ष्य विरमाशुचिपिंडकेभ्यस्तेभ्यश्च शुच्यशुचिवस्तुविचारमिच्छन् ॥५॥ विमुह्यसि स्मेरदृशः सुमुख्या, मुखेक्षणादीन्यभिवीक्षमाणः। समीक्षसे नो नरकेषु तेषु मोहोद्भवा भाविकदर्थनास्ताः ॥ ६ ॥ अमेध्यभना बहुरंध्रनिर्यनमलाविलोद्यत्कृमिजालकीर्णा । चापल्यमायानृतवंचिका स्त्री, संस्कारमोहानरकाय भुक्ता ॥ ७॥ निभूमिर्विषकंदली गतदरी व्याघ्री निराह्वो महाव्याधिमृत्युरकारणश्च ललनाऽनभ्रा च वाशनिः । बंधुस्नेहविघातसाहसमृषावादादिसंतापभूः, प्रत्यक्षापि च राक्षसीति बिरुदैः ख्याताऽऽगमे त्यज्यताम् ।।८।।
अथ तृतीयोऽपत्यममत्वमोचनाधिकारः मा भूरपत्यान्यवलोकमानो, मुदाकुलो मोहनपारिणा यत् । चिक्षिप्सया नारकचारकेऽसि, दृढं निबद्धो निगडैरमीभिः ॥ १ ॥ आजीवितं जीव भवान्तरेऽपि वा, शल्यान्यपत्यानि न वेत्सि किं हृदि । चलाचलैर्विविधार्तिदानतोऽनिशं निहन्येत समाधिरात्मनः ॥२॥ कुक्षौ युवत्याः कृमयो विचित्रा, अप्यस्रशुक्रप्रभवा भवन्ति । न तेषु तस्या नहि तत्पतेश्च, रागस्ततोऽयं किमपत्यकेषु ॥ ३ ॥ त्राणाशक्तेरापदि संबंधानंत्यतो मिथोंऽगवताम् । संदेहाचोपकृतेपित्येषु स्निहो जीव ॥ ४ ॥