________________
१२२
विदां लेप्यमया न तत्त्वात्, सुखाय मातापितृपुत्रदाराः । तथा परेऽपीह विशीर्णतत्तदाकारमेतद्धि समं समग्रम् ॥ २४ ॥ जानन्ति कामान्निखिलाः ससंज्ञाः, अर्थ नराः केऽपि च केऽपि धर्मम् । जैनं च केचिद् गुरुदेवशुद्ध, केचित् शिवं केऽपि च केsपि साम्यम् || २५ ।। स्निह्यन्ति तावद्धि निजा निजेषु, पश्यन्ति यावन्निजमर्थमेभ्यः । इमां भवेऽत्रापि समीक्ष्य रीतिं, स्वार्थे न कः प्रेत्य हि यतेत || २६ || स्वप्नेंद्र जालादिषु यद्वदाप्तै रोषश्च तोषश्च मुधा पदार्थैः । तथा भवेऽस्मिन् विषयैः समस्तैरेवं विभाव्यात्मलयेऽवहि ।। २७ ।। एष मे जनयिता जननीयं, बन्धवः पुनरिमे स्वजनाश्च । द्रव्यमेतदिति जातममत्वो, नैव पश्यसि कृतांतवशत्यम् ॥ २८ ॥ नो धनैः परिजनैः स्वजनैर्वा, दैवतैः परिचितैरपि मन्त्रैः। रक्ष्यतेऽत्र खलु कोऽपि कृतांतान्नो विभावयसि मूढ कीमेत्रम् ॥ २९ ॥ तैर्भवेऽपि यदहो सुखमिच्छंस्तस्य साधनतया प्रतीभातैः । मुह्यसि प्रतिकलं विषयेषु, प्रीतिमेषि न तु साम्यसतत्त्वे || ३० ।। (अर्थतो युग्मम् ) ॥ किं कषायकलुषं कुरुषे स्वं, केषु चीत्रनु मनोऽरीधियात्मन् । तेऽपी ते हि जनकादीकरूपैरीष्टतां दधुरनन्तभवेषु ॥ ३१ ॥ यांश्च शोचसि गताः कीमिमे मे, स्नेहला इती धिया विधुरात्मा । तैर्भवेषु नीहतस्त्वमनंतेष्वेव, तेऽपि निहता भवता च ॥ ३२ ॥ त्रातुं न शक्या भवदुःखतो ये, त्वया न ये त्वामपि पातुमीशाः । ममत्त्रमेतेषु दधन्मुधात्मन्, पदे पदे किं शुचमेषि मूढ ॥ ३३ ॥ सचेतना: पुद्गलपिंड जीवा, अर्थाः परे चाणुमया द्वयेऽपि । दधत्यनंतान् परीणामभावांस्तत्तेषु कस्त्वति रागषौ ॥ ३४ ॥
अथ द्वितीयः स्त्रीममत्वमोचनाधिकारः
मुह्यसि प्रणयचारुगिरासु, प्रीतितः प्रणयिनीषु कृतिस्त्वम् । किं न वेत्सि पततां भववाद्ध, ता नृणां खलु शिला गलबद्धाः