________________
१२१
स्मन् गुणिषु त्वशेषतः । भवार्तिदीनेषु कृपारसं सदाप्युदासवृत्ति खलु निगुणेष्वपि ॥ १० ॥ मैत्री परस्मिन् हितधीः समग्रे, भवेत्प्रमोदो गुणपक्षपातः । कृपा भवार्ते प्रतिकर्तुमीहोपेक्षव माध्यस्थ्यमवार्यदोषे ॥ ११ ॥ परहितचिन्तामैत्री, परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता, परदोषोपेक्षणमुपेक्षा ॥ १२ ॥ मा कार्षीत्कोऽपि पापानि, मा चाभूत्कोऽपि दुःखितः मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥ १३ ॥ अपास्ताशेष. दोषाणां, वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥ १४ ॥ दोनेष्वार्तेषु भीतेषु, याचमानेषु जीवीतम् । प्रतिकारपरा बुद्धिः, कारुण्यमभिधीयते ॥ १५॥ क्रूरकर्मसु निशंकं देवतागुरुनिदिषु । आत्मशसिषु, योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥ १६ ॥ चेतनेतरगतेष्वखिलेषु, स्पशरूपरवगंधरसेषु । साम्यमेष्यति यदा तव चेतः, पाणिगं शिवसुखं हि यदात्मन् ॥ १७ ॥ के गुणास्तव यतः स्तुतिमिच्छस्य दुतं किमकथा मदवान् यत् । कैर्गता नरकभीः सुकृतैस्ते, किं जितः पितृपतिर्यदचिन्तः ॥ १८ ॥ गुणस्तवैर्यो गुणिनां परेषामाकोशनिंदादिभिरात्मनश्च । मनः समं शीलति मोदते वा, खिद्येत च व्यत्ययतः स वेत्ता ॥ १९ ॥ न वेत्सि शत्रून सुहृद च नैव, हिताहिते स्वं न परं च जन्तोः । दुखं द्विषन् वांछसि शर्म चैतनिदानमूढः कथमाप्स्यसीष्टम् ॥ २० ॥ कृती हि सर्व परि णामरम्यं, विचार्य गृह्णाति चिरस्थितीह । भवान्तरेऽनन्तसुखाप्तये तद् आत्मन् किमाचारमिमं जहासि ॥ २१ ॥ निजः परो वेति कृतो विभागो, रागादिभिस्तत्वरयस्तवात्मन् । चतुर्गतिक्लेशविधानतस्तत् प्रमाणयन्नस्यरिनिर्मितं किम् ।। २२ ॥ अनादिरात्मा न. निजः परो वा, कस्यापि कश्चिन्न रिपुः सुहृद्वा । स्थिरा न देहाकृतयोऽणवश्व, तथापि साम्यं किमुपैषि नैषु ॥ २३ ॥ यथा