________________
१२०
व्याबाधसुखाख्यं प्राप्यस्यत्यचिरेण परमार्थम् ॥ ६ ॥ इति भाष्यप्रशस्तिः ॥
श्री तत्त्वार्थमहाशास्त्रं संपूर्णम्
सहस्रावधानिश्रीमुनिसुन्दरसूरिविरचितोऽध्यात्मकल्पद्रुमः ।
"
जयश्रीरांतरारीणां लेभे येन प्रशांतितः । तं श्रीवीरजिनं नत्वा, रसः शांतो विभाव्यते ॥ १ ॥ सर्वमंगलनिधौ हृदि यस्मिन् संगते निरुपमं सुखमेति । मुक्तिशर्म च वशीभवति द्राक्, तं बुधा भजत शांतरसेंद्रम् ॥ २ ॥ समतैकलीनचित्तो, ललनापत्यस्वदेहममतामुक् । विषयकपायाद्यवशः शास्त्रगुणैर्दमितचेस्कः || ३ || वैराग्यशुद्धधर्मा देवादिसतत्त्वविद्विरतिधारी । संवरवान् शुभवृत्तिः साम्यरहस्यं भज शिवार्थिन् ॥ ४ ॥ युग्मम् ॥
अथ प्रथमः समताधिकार :
चित्तबालक मा त्याक्षीरजस्र भावनौषधीः । यत्त्वां दुर्ध्यानभूत छलयन्ति छलान्विषः ॥ ५ ॥ यदिंद्रियार्थैः सकलैः सुखं स्यान्नरेन्द्रचक्रित्रिदशाधिपानाम् । तदुबिंदवत्येव पुरो हि साम्यसुधबुधेस्तेन तमाद्रियस्व ॥ ६ ॥ अदृष्टवैचित्र्यवशाज्जगज्जने, विचित्रकर्माशयवाग्वि संस्थुले । उदासवृत्तिस्थितचित्तवृत्तयः, सुखं श्रयंते यतयः क्षतार्तयः ||७|| विश्वजंतुषु यदि क्षणमेकं साम्यतो भजसि मानस मैत्रीम् । तत्सुखं परममंत्र परत्राप्यनुषे न यदभूतव जातु ॥ ८ ॥ न यस्य मित्रं न च कोऽपि शत्रुर्निजः परो वापि न वा । न चेन्द्रियार्थेषु रमेत चेतः, कषायमुक्तः परमः स योगी ॥ ९ ॥ भजस्व मैत्रीं जगदङ्गिराशिषु, प्रमोदमा
·