Book Title: Shrutgyan Amidhara
Author(s): Kshamabhadrasuri
Publisher: Shrutgyan Amidhara Gyanmandiram

View full book text
Previous | Next

Page 111
________________ चयमुपयाति संस्थानविचयं च ॥ २४६ ॥ आप्तवचनं प्रवचनं चाज्ञाविचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाद्यैरपायस्तु ॥ २४७ ॥ अशुभशुभकर्मविपाकानुचिन्तनार्थो विपाकविचयःस्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ २४८ ॥ जिनवरवचनगुणगणं सञ्चिन्तयतो वधाद्यपायां च । कर्मविपाकान् विविधान संस्थानविधीननेकांच ॥ २४९ ॥ नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य ॥ २५० ॥ तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ॥ २५१ ॥ आत्मारामस्य सतः समतृणमणिमुक्तलेष्टुकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५२ ॥ अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुद्धयमानस्य । चारित्रशुद्धिमत्र्यामवाप्य लेश्याविशुद्धिं च ।। २५३ ॥ तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् । ऋद्धिप्रवेकविभववदुपजातं जातभद्रस्य ॥ २५४ ॥ सातर्द्धिरसेष्वगुरुःप्राप्यर्द्धिविभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे न भवति तस्यां मुनिः सङ्गम् ॥ २५५ ॥ या सर्वसुरवरद्धिविस्मयनीयापि साऽनगार?: । नार्घति सहस्रभागं कोटिशतसहस्रगुणितापि ॥ २५६ ॥ तजयमवाप्य जितविघ्नरिपुभवशतसहस्रदुष्प्रापम् । चारित्रमथाख्यातं संप्राप्तस्तीर्थकृत्तुल्यम् ॥ २५७ ॥ शुक्लध्यानाद्यद्वयमवाप्य, कर्माष्टकप्रणेतारम् । संसारमूलबीजं मूलादुन्मूलयति मोहम् ॥ २५८ ॥ पूर्व करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं क्षपयति सम्यक्त्वमिथ्यात्वम् ॥२५९ ॥ सम्यक्त्त्वमोहनीयं क्षपयत्यष्टावत: कषायांश्च । क्षयपति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात् ॥२६०॥ हास्यादि ततः षट्कं क्षयपति तस्माच पुरुषवेदमपि । संज्वलनानपि हत्वा प्राप्नोत्यथ वीतरागत्वम् ॥ २६१ ॥ सर्वोद्धातितमोहो निहतक्लेशो यथा हि सर्वज्ञः । भात्यनुपलक्ष्यराहशोन्मुक्तः पूर्णचन्द्र

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234