________________
चयमुपयाति संस्थानविचयं च ॥ २४६ ॥ आप्तवचनं प्रवचनं चाज्ञाविचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाद्यैरपायस्तु ॥ २४७ ॥ अशुभशुभकर्मविपाकानुचिन्तनार्थो विपाकविचयःस्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ २४८ ॥ जिनवरवचनगुणगणं सञ्चिन्तयतो वधाद्यपायां च । कर्मविपाकान् विविधान संस्थानविधीननेकांच ॥ २४९ ॥ नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य ॥ २५० ॥ तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ॥ २५१ ॥ आत्मारामस्य सतः समतृणमणिमुक्तलेष्टुकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५२ ॥ अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुद्धयमानस्य । चारित्रशुद्धिमत्र्यामवाप्य लेश्याविशुद्धिं च ।। २५३ ॥ तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् । ऋद्धिप्रवेकविभववदुपजातं जातभद्रस्य ॥ २५४ ॥ सातर्द्धिरसेष्वगुरुःप्राप्यर्द्धिविभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे न भवति तस्यां मुनिः सङ्गम् ॥ २५५ ॥ या सर्वसुरवरद्धिविस्मयनीयापि साऽनगार?: । नार्घति सहस्रभागं कोटिशतसहस्रगुणितापि ॥ २५६ ॥ तजयमवाप्य जितविघ्नरिपुभवशतसहस्रदुष्प्रापम् । चारित्रमथाख्यातं संप्राप्तस्तीर्थकृत्तुल्यम् ॥ २५७ ॥ शुक्लध्यानाद्यद्वयमवाप्य, कर्माष्टकप्रणेतारम् । संसारमूलबीजं मूलादुन्मूलयति मोहम् ॥ २५८ ॥ पूर्व करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं क्षपयति सम्यक्त्वमिथ्यात्वम् ॥२५९ ॥ सम्यक्त्त्वमोहनीयं क्षपयत्यष्टावत: कषायांश्च । क्षयपति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात् ॥२६०॥ हास्यादि ततः षट्कं क्षयपति तस्माच पुरुषवेदमपि । संज्वलनानपि हत्वा प्राप्नोत्यथ वीतरागत्वम् ॥ २६१ ॥ सर्वोद्धातितमोहो निहतक्लेशो यथा हि सर्वज्ञः । भात्यनुपलक्ष्यराहशोन्मुक्तः पूर्णचन्द्र