________________
९३
इत्र ॥ २६२ ॥ सर्वेन्धनैक राशीकृत संदीप्तो ह्यनन्तगुणतेजाः । ध्यानानलस्तपःप्रशमसंवरहविर्विवृद्धबलः || २६३ || क्षपकश्रेणिमुपगतः स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसङ्क्रमः स्यात्परकृतस्य ।। २६४ ॥ परकृतकर्मणि यस्मान्नाक्रामति संक्रमो विभागो वा । तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥ २६५ ॥ मस्तकसूचिविनाशात्तालस्य यथा ध्रुवो भवति नाशः । तद्वत्कर्म - विनाशो हि मोहनीयक्षये नित्यम् ॥ २६६ ॥ छद्मस्थवीतरागः कालं सोऽन्तर्मुहूर्तमथ भूत्वा । युगपद्विविधावरणान्तरायकर्मक्षयमवाप्य ॥ २६७ ।। शाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । संपूर्णमप्रतिहतं सम्प्राप्तः केवलं ज्ञानम् || २६८ ।। कृत्स्ने लोकालोके व्यतीतसाम्प्रतभविष्यतः कालान् । द्रव्यगुणपर्यायाणां ज्ञाता दृष्टा च सर्वार्थैः ।। २६९ ॥ क्षीणचतुष्कर्मांशो वेद्यायुर्नामगोत्रवेदयिता । विहरति मुहूर्तकालं देशोनां पूर्वकोटिं वा ॥ २७० ॥ तेनाभिन्नं चरमभवायुर्भेदमनपवर्तित्वात् । तदुपग्रहं च वेद्यं तत्तुल्ये नामगोत्रे च ॥ २७९ ॥ यस्य पुनः केवलिनः कर्म भवत्यायुषो ऽतिरिक्ततरम् । स समुद्धातं भगवानथ गच्छति तत्समीकर्तम् ।। २७२ ॥ दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापि चतुर्थे तु ॥ २७३ ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥ २७४ ॥ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमपष्ठद्वितीयेषु || २७५ || कार्मणशरीरयोगी चतुर्थके पञ्चके तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ २७६ ॥ स समुद्घातनिवृत्तोऽथ मनोवाक्काययोगवान् भगवान् । यतियोग्ययोगयोक्ता योगनिरोधं मुनिरुपैति ॥ २७७ ॥ पचेन्द्रियोऽथ संज्ञी यः पर्याप्तो जघन्ययोगी स्यात् । निरुणद्धि मनोयोगं ततोऽप्यसंख्येय