________________
गुणहीनम् ॥ २७८ ॥ द्विन्द्रियसाधारणयोर्वागुच्छवासावधो जयति तद्वत् । पनकस्य काययोगं जघन्यपर्याप्तकस्याधः ।। २७९ ॥ सूक्ष्मक्रियमप्रतिपाती काययोगोप-योगतो (गस्ततो?) ध्यात्वा । विगतक्रियमनिवर्तित्वमुत्तरं ध्यायति परेण ॥ २८० ॥ चरमभवे संस्थानं यादृग्यस्योच्छयप्रमाणं च। तस्मात्रिभागहीनावगाहसंस्थानपरिणाहः ॥ २८१ ॥ सोऽथ मनोवागुच्छवासकाययोगक्रियार्थविनिवृत्तः । अपरिमितनिर्जरात्मा संसारमहार्णवोत्तीर्णः ॥ २८२ ॥ ईषह्रस्वाक्षरपञ्चकोगिरणमात्रतुल्यकालीयाम् । संयमवीर्याप्तबल: शैलेशीमेति गतलेश्यः ॥२८३ ॥ पूर्वरचितं च तस्यां समयश्रेण्यामथ प्रकृतिशेषम् । समये समये क्षपयत्यसंख्यगुणमुत्तरोत्तरतः ॥२८४ । चरमे समये संख्यातीतान्विनिहत्य चरमकमांशान् । क्षपयति' युगपत् कृत्स्नं वेदायुर्नामगोत्रगणम ॥ २८५ ॥ सर्वगतियोग्य. संसारमूलकरणानि सर्वभावीनि । औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्त्वा ॥२८६॥ देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वगतिमप्रतिघः ॥ २८७ ॥ सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मक्तः । लोकाग्रगतः सिध्यति साकारेणोपयोगेन' ॥ २८८ ॥ सादिकमनन्तमनुपममव्याबाधसुखमुत्तमं प्राप्तः । केवलसम्यक्त्त्वज्ञानदर्शनात्मा भवति मुक्तः ॥२८९।। मुक्तः सन्नाऽभावः स्वालक्षण्यात्स्वतोऽर्थसिध्धेश्च । भावान्तरसंक्रान्तेः सर्वज्ञाज्ञोपदेशाच्च ॥ २९० ॥ त्यक्त्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच्च ॥२९१।। नाधो गौरवविगमादशक्यभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं लवक इवोपग्रहाभावात् ॥ २९२ ॥ योगप्रयोगयोश्चाभावात्तिर्यग् न तस्य गतिरस्ति । सिद्धस्योर्ध्व मुक्तस्यालोकान्ताद्गतिर्भवति ॥२९३॥ पूर्वप्रयोगसिध्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच तथा सिद्धस्योवं गतिः सिद्धा ॥२९४ ॥ देहमनोवृत्तिभ्यां भवतः