________________
शारीरमानसे दुःखे । तदभावात्तदभावे सिद्ध सिद्धस्य सिद्धिसुखम् ॥ २९५ ॥ यस्तु यतिर्घटमानः सम्यक्त्त्वज्ञानशीलसंपन्नः । वीर्यमनिगूहमानः शक्त्त्यनुरूपं प्रयत्नेन ॥ २९६ ॥ संहननायुर्बलकालवीर्यसंपत्समाधिवैकल्यात् । कर्मातिगौरवाद्वा स्वार्थमकृत्वोपरममेति ॥२९७ ॥ सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु। स. भवति देवो वैमानिको महर्द्धिधुतिवपुष्कः ॥ २९८ ॥ तत्र सुरलोकसोख्यं चिरमनुभूय स्थितिक्षयात्तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसंघेषु ॥ २९९ ॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसंपन्नः । श्रद्धासम्यक्त्त्वज्ञानसंवरतपोबलसमग्रः ॥ ३०० ॥ पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः। सेत्स्यति ततः परं वा स्वर्गान्तरितत्रिभवभावात् ॥ ३०१ ॥ यश्वेह जिनवरमते गृहाश्रमी निश्चितः सुविदितार्थः । दर्शनशीलव्रतभावनाभिरभिरञ्जितमनस्कः
॥ ३०२ ॥ स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जितः सततम् । दिव्रतमिह देशावकाशिकमनर्थविरतिं च ॥ ३०३ ॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं विधिवत्पात्रेषु विनियोज्यम् ॥३०४॥ चैत्यायतनप्रस्थापनानि च कृत्वा शक्तितः प्रयतः। पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः ॥ ३०५ ॥ प्रशमरतिनित्यतृषितो जिनगुरुसाधुजनवन्दनाभिरतः । संलेखनां च काले योगेनाराध्य सुविशुद्धाम् ॥ ३०६ ॥ प्राप्तः कल्पेविन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ।। ३०७ ॥ नरलोकमेत्य सर्वगुणसंपदं दुर्लभां पुनर्लब्ध्वा । शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥३०॥ इत्येवं प्रशमरतेः फलमिह स्वर्गापवर्गयो'च शुभम् । संप्राप्यतेऽनगारैरगारिभि चोत्तरगुणाव्यः ॥ ३०९ ॥ जिनशासनार्णवादाकृष्ट धर्मकथिकामिमां श्रुत्वा । रत्नाकरादिव जरत्कपर्दिकामुद्धृतां भक्त्त्या ॥ ३१० ॥ सद्भिर्गुणदोषज्ञैर्दोषानुत्सृज्य गुणलवा ग्राह्या । सर्वा