________________
त्मना च सततं प्रशमसुखायैव यतितव्यम् ॥ ३११ ॥ यच्चासमंजसमिह छन्दःशब्दसमयार्थतो(मया?)ऽभिहितम् । पुत्रापराधवन्मम मर्षयितव्यं बुधैः सर्वम् ॥ ३१२ ॥ सर्वसुखमूलबीजं सर्वार्थविनिचयप्रकाशकरम् । सर्वगुणसिद्धिसाधनधनमईच्छासनं जयति ॥ ३१३ ॥ . ॥ समाप्तमिदं श्रीवाचकेन्द्रोमास्वामिविरचितं श्रीप्रशमरतिप्रकरणम् ॥
श्रीहृदयप्रदीपषट्त्रिंशिका । शब्दादिपञ्चविषयेषु विचेतनेषु, योऽन्तर्गतो हृदि विवेककलां व्यनक्ति । यस्माद् भवान्तरगतान्यपि चेष्टितानि प्रादुर्भवन्त्यनुभवं तमिमं भजेथाः ॥ १ ॥ जानन्ति केचिन्नतु कर्तुमीश , कतु क्षमा ये न च ते विदन्ति । जानन्ति तत्त्वं प्रभवन्ति कतु ते केऽपि लोके विरला भवन्ति ॥ २ ॥ सम्यग् विरक्तिर्ननु यस्य चित्ते, सम्यग् गुरुर्यस्य च तत्त्ववेत्ता । सदानुभूत्या दृढनिश्चयो यस्तस्यैव सिद्धिर्न हि चापरस्य ॥३॥ विग्रहं कृमिनिकायसङ्कलं दुखदं हृदि विवेचयन्ति ये । गुप्तिबन्धमिव चेतनं हि ते, मोचयन्ति तनुयः
त्रयन्त्रितम् ॥ ४ ॥ भोगार्थमेतद् भविनां शरीरम्, ज्ञानार्थमेतत् किल योगिनां वै । जाता विषं चेद्विषया हि सम्यग-ज्ञानात्ततः किं कुणपस्य पुष्ट्या ॥ ५॥ त्वङ्मांसमेदोऽस्थिपुरीषमूत्रपूर्णेऽनुरागः कुणपे कथं ते । दृष्टा च वक्ता च विवेकरूपत्स्वमेव साक्षात् किमु मुखसीत्थम् ॥ ६ ॥ धनं न केषां निधनं गतं वै, दरिद्रिणः के धनिनो न दृष्टाः । दुःखैकहेत्वत्र धनेऽतितृष्णां त्यक्त्त्वा सुखी स्यादिति मे विचारः ॥ ७ ॥ संसारदुःखान्न परोऽस्ति रोगः, सम्यग्विचारात् परमौषधं न । तद्रोगदुःखस्य विनाशनाय, सच्छा