________________
९७
स्वतोयं क्रियते विचारः || ८ || अनित्यताया यदि चेत् प्रतीतिस्तत्त्वस्य निष्ठा च गुरुप्रसादात् । सुखी हि सर्वत्र जने वने च, नो चेद्वने चाथ जनेषु दुःखी || ९ || मोहान्धकारे भ्रमतीह तावत्, संसारदुःखैश्च कदर्थ्यमानः । यावद्विवेकार्कमहोदयेन, यथास्थितं पश्यति नात्मरूपम् ॥ १० ॥ अर्थो ह्यनर्थो बहुधा मतोऽयम्, स्त्रीणां चरित्राणि शवोपमानि । विषेण तुल्या विषयाश्च तेषां येषां हृदि स्वात्मलयानुभूतिः ।। ११ । कार्य च किं ते परदोषदृष्ट्या, कार्यं च किं ते परचिन्तया च । वृथा कथं खिद्य बालबुध्धे कुरु स्वकार्य त्यज सर्वमन्यत् ॥ १२ ॥ यस्मिन् कृते कर्मणि सौख्यलेशो दुःखानुबन्धस्य तथास्ति नान्तः । मनोऽभितापो मरणं हि यावत् मूर्खोऽपि कुर्यात् खलु तन्न कर्म ॥ १३ ॥ यदर्जितं वै वयसाऽखिलेन, ध्यानं तपो ज्ञानमुखं च सत्यम् । क्षणेन सर्व प्रदत्यो तत्, कामो बलि प्राप्य बलं (छलं ? ) यतीनाम् ॥ १४ ॥ बलादसौ मोहरिपुर्जनानां ज्ञानं विवेकं च निराकरोति । मोहाभिभूतं हि जगद्विनष्टं तत्त्वावबोधादपयाति मोहः ।। १५ ।। सर्वत्र सर्वस्य सदा प्रवृत्तिर्द:खस्य नाशाय सुखस्य हेतोः । तथापि दुःखं न विनाशमेति सुखं न कस्यापि भजेत् स्थिरत्वम् ॥ १६ ॥ यत् कृत्रिमं वैषयिकादि सौख्यम्, भ्रमन् भवे को न लभेत मर्त्यः । सर्वेषु तच्चाधममध्यमेषु यद् दृश्यते तत्र किमद्भुतं च ॥ १७ ॥ क्षुधातृषा कामविकाररोषहेतुश्च तद् भेषजवद्वदन्ति । तदस्वतन्त्रं क्षणिकं प्रयासकृत्, यतीश्वरा दूरतरं त्यजन्ति ॥ १८ ॥ गृहीतलिङ्गस्य च चेद्धनाशा, गृहीतलिङ्गो विषयाभिलाषी । गृहीतलिङ्गो रसलोलुपश्चेद्, विडम्बनं नास्ति ततोऽधिकं हि ॥ १९ ॥ ये लुब्धचित्ता विषयार्थभोगे बहिर्विरागा हृदि बद्धरागाः । ते दाम्भिका वेषधराश्च धूर्ताः मनांसि लोकस्य तु रञ्जयन्ति ॥ २० ॥ मुग्धच लोकोऽपि हि यत्र मार्गे निवेशितस्तत्र रतिं करोति ।