________________
धूर्तस्य वाक्यैः परिमोहितानां केषां न चित्तं भ्रमतीह लोके ॥२१॥ ये निःस्पृहास्त्यक्तसमस्तरागास्तत्त्वैकनिष्ठा गलिताभिमानाः । सन्तोषपोषकविलीनवाब्छास्ते रञ्जयन्ति स्वमनो न लोकम् ॥२२॥ तावद्विवादी जनरञ्जकञ्च, यावन्न चैवात्मरसे सुखशः । चिन्तामणिं प्राप्य वरं हि लोके, जने जने कः कथयन् प्रयाति ॥ २३ ॥ षण्णां विरोधोऽपि च दर्शनानाम् , तथैव तेषां शतशश्च भेदाः । नानापथे सर्वजनः प्रवृत्तः, को लोकमाराधयितुं समर्थः ॥ २४ ॥ तदेव राज्यं हि धनं तदेव, तपस्तदेवेह कला च सैव । स्वस्थे भवेच्छीतलताशये चेन्नो चेद् वृथा सर्वमिदं हि मन्ये ॥ २५ ॥ रुष्टैर्जनैः किं यदि चित्तशान्तिस्तुष्टैर्जनैः किं यदि चित्ततापः । प्रीणाति नो नैव दुनोति चान्यान, स्वस्थः सदोदासपरो हि योगी. ॥ २६ ॥ एकः पापात् पतति नरके, याति पुण्यात् स्वरेकः, पुण्यापुण्यप्रचयविगमात् मोक्षमेकः प्रयाति । संगान्नूनं न भवति सुखम् , न द्वितीयेन कार्यम् , तस्मादेको विचरति सदानन्दसौख्येन पूर्णः ॥ २७ ॥ त्रैलोक्यमेतद् बहुभिर्जितं यैर्मनोजये तेऽपि यतो न शक्ताः । मनोजयस्यात्र पुरो हि तस्मात् , तृणं त्रिलोकीविजयं वदन्ति ॥ २८ ॥ मनोलयानास्ति परो हि योगो ज्ञानं तु तत्त्वार्थविचारणाच । समाधिसौख्यान्न परं च सौख्यम् , संसारसारं प्रयमेतदेव ॥ २९ ॥ या सिद्धयोऽष्टावपि दुर्लभा ये, रसायनं चाञ्जनधातुवादाः । ध्यानानि मन्त्राश्च समाधियोगाश्चित्ते प्रसन्ने विषवद् भवन्ति ॥ ३० ॥ विन्दन्ति तत्त्वं न यथास्थितं बै, सङ्कल्पचिन्ताविषयाकुला ये । संसारदुःखैश्व कदर्थितानाम् , स्वप्नेऽपि तेषां न समाधिसौख्यम् ।। ३१ ।। श्लोको वरं परमतत्त्वपथप्रकाशी, न ग्रन्थकोटिपठनं जनरञ्जनाय । सञ्जीवनीति वरमौषधमेकमेव, व्यर्थःश्रमप्रजननो न तु मूलभारः ॥ ३२ ॥ तावत् सुखेच्छा विषयादिभोगे, यावन् मनः स्वास्थ्यसुखं न वेत्ति । लब्धे मनः