________________
स्वास्थ्यमुखैकलेशे, त्रैलोक्यराज्येऽपि न तस्य वान्छा ॥ ३३ ॥ न देवराजस्य न चक्रवर्तिनस्तद्वै सुखं रागयुतस्य मन्ये । यद्वीतरागस्य मुनेः सदात्मनिष्ठस्य चित्ते स्थिरतां प्रयाति ॥ ३४ ॥ यथा यथा कार्यशताकुलं वै, कुत्रापि नो विश्रमतीह चित्तम् । तथा तथा तत्त्वमिदं दुरापं हृदिस्थितं सारविचारहीनैः ॥ ३५ ॥ शमसुखरसलेशात् द्वेष्यतां संप्रयाता विविधविषयभोगात्यन्तवाञ्छाविशेषाः । परमसुखमिदं यद् भुज्यतेऽन्तः समाधौ, मनसि यदि तदा ते शिष्यते किं वदान्यत् ॥ ३६ ॥
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यचरणकजचश्चरीकगुर्जरसम्राट्श्रीकुमारपालविरचितं साधारणजिनस्तवनम् ॥
नम्राखिलाखण्डलमौलिरत्नरश्मिच्छरापल्लवितांहिपीठ। विध्वस्तविश्वव्यसनप्रबन्ध, त्रिलोकबन्धो जयताजिनेन्द्र ॥१॥ मूढोऽस्म्यहं विज्ञपयामि यत्त्वामपेतरागं भगवन् कृतार्थम् । नहि प्रभूणामुचितस्वरूपनिरूपणाय क्षमतेऽर्थिवर्गः ॥ २ ॥ मुक्तिं गतोऽपीश विशुद्धचित्ते गुणाधिरोपेण ममासि साक्षात् । भानुदेवीयानपि दर्पणेऽशुसङ्गान्न किं द्योतयते गृहान्तः ॥ ३ ॥ तव स्तवेन क्षयमङ्गभाजां भजन्ति जन्मार्जितपातकानि । कियच्चिरं चण्डरुचेमरीचिस्तोमे तमांसि स्थितिमुद्वहन्ति ॥ ४ ॥ शरण्य कारुण्यपरः परेषां निहंसि मोहज्वरमाश्रितानाम् । मम त्वदाज्ञां वहतोऽपि मूर्ना शान्तिं न यात्येष कुतोऽपि हेतोः ॥ ५ ॥ भवाटवीलङ्घनसार्थवाहं त्वामाश्रितो मुक्तिमहं यियासुः । कषायचौरैर्जिन लुप्यमानं रत्नत्रयं मे तदुपेक्षसे किम् ॥ ६ ॥ लब्धोऽसि स त्वं मयका महात्मा भवाम्बुधौ बंभ्रमता कथंचित् । आः पापपिण्डेन नतो न भक्त्त्या , न पूजितो