________________
नाथ न तु स्तुतोऽसि ॥ ७ ॥ संसारचक्रे भ्रमयन् कुबोधदण्डेन मां कर्ममहाकुलालः । करोति दुःखप्रचयस्थभाण्डम् , ततः प्रभो रक्ष जगच्छरण्य ॥ ८॥ कदा त्वदाज्ञाकरणाततत्त्वस्त्यक्त्त्वा ममत्वादि भवैककन्दम् । आत्मैकसारो निरपेक्षवृत्तिर्मोक्षेऽप्यनिच्छो भवितास्मि नाथ ॥ ९ ॥ तव त्रियामापतिकान्तिकान्तैर्गुणैनियम्यास्ममनःलवङ्गम् । कदा त्वदाज्ञाऽमृतपानलोलः, स्वामिन् परब्रह्मरति करिष्ये ॥ १० ॥ एतावती भूमिमहं त्वदंहिपद्मप्रसादाद्तवानधीश । हठेन पापास्तदपि स्मराया ही मामकार्येषु नियोजयन्ति ॥ ११ ॥ भद्र न किं त्वय्यपि नाथनाथे, सम्भाव्यते मे यदपि स्मराद्याः । अपाक्रियन्ते शुभभावनाभिः, पृष्ठिं न मुश्चन्ति तथापि पापाः ॥१२॥ भवाम्बुराशौ भ्रमतः कदापि, मन्ये न मे लोचनगोचरोऽभूः । निस्सीमसीमन्तकनारकादिदुःखातिथित्वं कथमन्यथेश ॥ १३ ॥ चक्रासिचापाकुशवजमुख्यैः, सल्लक्षणैर्लक्षितमंह्रियुग्मम्। नाथ त्वदीयं शरणं गतोऽस्मि, दुर्वारमोहादिविपक्षभीतः ॥ १४ ॥ अगण्यकारुण्य शरण्य पुण्य, सर्वज्ञ निष्कण्टक विश्वनाथ । दीनं हताशं शरणा. गतं च, मां रक्ष रक्ष स्मरभिल्लभल्लेः ॥ १५ ॥ त्वया विना दुष्कृतचक्रवालं नान्यः क्षयं नेतुमलं ममेश । किंवा विपक्षप्रतिचक्रमूलम् , चक्रं विना च्छेत्तुमलम्भविष्णुः ॥ १६॥ यदेवदेवोऽसि महेश्वरोऽसि, बुद्धोऽसि विश्वत्रयनायकोऽसि । तेनान्तरङ्गारिगणाभिभूतस्तवाग्रतो रोदिमि हा सखेदम् ॥ १७ ॥ स्वामिन्नधर्मव्यसनानि हित्वा, मनः समाधौ निदधामि यावत् । तावत्क्रुधेवान्तरवैरिणो मामनल्पमोहान्ध्यवशं नयन्ति ॥ १८ ॥ त्वदागमाद्वेद्मि सदैव देव, मोहादयो यन्मम वैरिणोऽमी । तथापि मूढस्य पराप्त बुद्धया तत्सन्निधौ ही न किमप्यकृत्यम् ॥ १९ ॥ म्लेच्छर्नशंसैरतिराक्षसैश्च, विडम्बितोऽमीभिरनेकशोऽहम् । प्राप्तस्त्विदानी भुवनैकवीर, त्रायस्व मां यत्तव पादलीनम् ॥ २०॥ हित्वा स्वदेहेऽपि