________________
ममत्वबुद्धिं श्रद्धापवित्रीकृतसद्विवेकः । मुक्तान्यसङ्गः, समशत्रुमित्रः, स्वामिन् कदा संयममातनिष्ये ॥२१॥ त्वमेव देवो मम वीतराग, धर्मो भवदर्शितधर्म एव । इति स्वरूपं परिभाव्य तस्मान्नोपेक्षणीयो भवति स्वभृत्यः ॥ २२ ॥ जिता जिताशेषसुरासुरागः, कामादयः कामममी त्वयेश । त्वां प्रत्यशक्तास्तव सेवकं तु, निघ्नन्ति हि मां परुषं रुपैव ॥ २३ ॥ सामर्थ्यमेतद्भवतोऽस्ति सिद्धिं सत्त्वानशेषानपि नेतुमीश । क्रियाविहीनं भवदंहिलीनम् , दीनं न किं रक्षसि मां शरण्य ॥ २४ ॥ त्वत्पादपद्मद्वितयं जिनेन्द्र, स्फुरत्यजस्र हृदि यस्य पुंसः । विश्वत्रयीश्रीरपि नूनमेति, तत्राश्रयार्थ सहचारिणीव ॥२५॥ अहं प्रभो निर्गुणचक्रवर्ती, क्रूरो दुरात्मा हतकः सपाप्मा । ही दुःखराशौ भववारिराशौ, यस्मान्निमग्नोऽस्मि भवद्विमुक्तः ॥ २६ ।। स्वामिनिमग्नोऽस्मि सुधासमुद्रे, यन्नेत्रपात्रातिथिरद्य मेऽभूः । चिन्तामणौ स्फूर्जति पाणिपझे, पुंसामसाध्यो नहि कश्चिदर्थः ॥ २७ ॥ त्वमेव संसारमहाम्बुराशौ, निमजतो मे जिन यानपात्रम् । त्वमेव मे श्रेष्ठसुखैकधाम, विमुक्तिरामाघटनाभिरामः ॥ २८ ॥ चिन्तामणिस्तस्य जिनेश पाणौ, कल्पद्रमस्तस्य गृहाङ्गणस्थः । नमस्कृतो येन सदापि भक्त्त्या, स्तोत्रैः स्तुतो दामभिरर्चितोऽसि ॥२९॥ निमील्य नेत्रे मनसः स्थिरत्वं विधाय यावजिन चिन्तयामि । त्वमेव तावन्न परोऽस्ति देवो निःशेषकर्मक्षयहेतुरत्र ॥३०॥ भक्त्त्या स्तुता अपि परे परया परेभ्यो मुक्तिं जिनेन्द्र ददते न कथञ्चनापि । सिक्ताः सुधारसघटैरपि निम्बवृक्षा विश्राणयन्ति नहि चूतफलं कदाचित् ॥ ३१ ॥ भवजलनदिमध्यानाथ निस्तार्य कार्यः, शिवनगरकुटुम्बी निर्गुणोऽपि त्वयाऽहम् । नहि गुणमगुणं वा संश्रितानां महान्तो निरुपमकरुणााः सर्वथा चिन्तयन्ति ॥ ३२ ॥ प्राप्तस्त्वं बहुभिः शुभैत्रिजगतश्रूडामणिर्देवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रभुः । तन्नातः परमस्ति वस्तु किमपि स्वामिन्