________________
१०२
यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवम् , स्ताद्वर्द्धमानो मम ॥ ३३ ॥ इति साधारणजिनस्तवनम् ।।
श्रीरत्नाकरपञ्चविंशतिका श्रेयः श्रियां मङ्गलकेलिसद्म! नरेन्द्रदेवेन्द्रनतांघ्रिपद्म!। सर्वज्ञ! सर्वातिशयप्रधान ! चिरं जय ज्ञानकलानिधान ! ॥१॥जगत्त्रयाधार! कृपावतार ! दुर्वारसंसारविकारवैद्य ! । श्री वीतराग ! त्वयि मुग्धभावाद्विज्ञप्रभो! विज्ञपयामि किश्चित् ॥२॥ किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः । तथा यथार्थ कथयामि नाथ ! निजाशयं सानुशयस्तवाने ॥ ३ ॥ दत्तं न दानं परिशीलितं च न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद्भवेऽस्मिन् विभो ! मया भ्रान्तमहो मुधैव ॥ ४ ॥ दग्धोऽग्निना क्रोधमयेन दष्टो, दुष्टेन लोभाख्यमहोरगेण । प्रस्तोऽभिमानाजगरेण, माया-जालेन बद्धोऽस्मि कथं भजे त्वाम् ॥ ५ ॥ कृतं मयाऽमुत्र हितं न चेहलोकेऽपि लोकेश! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, जिनेश! जज्ञे भवपूरणाय ॥ ६ ॥ मन्ये मनो यन्न मनोज्ञवृत्तं, त्वदास्यपीयूषमयूखलाभात् । द्रुतं महानंदरसं कठोरमस्मादृशां देव तदश्मतोऽपि ॥ ७ ॥ त्वत्तः सुदुःप्राप्यमिदं मयाप्तं रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत् , कस्यापतो नायक ! पूत्करोमि ॥ ८ ॥ वैराग्यरङ्गोऽपरवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययनं च मेऽभूत्, कियद् ब्रुवे हास्यकरं स्वमीश ! ॥ ९ ॥ परापवादेन मुखं सदोषम्, नेत्रं परस्त्रीजनवीक्षणेन । चेतः पराऽपायविचिन्तनेन कृतं भविष्यामि कथं विभोऽहम् ॥ १०॥ विउम्बितं यत्स्मरघस्म