________________
१०३
रार्तिदशावशात्स्वं विषयान्धलेन । प्रकाशितं तद्भवतो हियैव, सर्वज्ञ ! सर्व स्वयमेव वेत्सि ।। ११ ।। ध्वस्तोऽन्यमन्त्रैः परमेष्ठिमन्त्रः, कुशास्त्रवाक्यैर्निहतागमोक्तिः । कतु वृथा कर्म कुदेवसङ्गावाञ्छि ही ( है ) नाथ मतिभ्रमो मे || १२ || विमुच्य हगूलक्ष्यगतं भवन्तम्, ध्याता मया मूढधिया हृदन्तः । कटाक्षवक्षोजगभीरनाभिकटीतटीयाः सुदृशां विलासाः || १३ || लोलेक्षणावसूत्रनिरीक्षणेन, यो मानसे रागलवो विलग्नः । न शुद्धसिद्धान्तपयोधिमध्ये, धौतोऽप्यगात्तारक ! कारणं किम् ॥ १४ ॥ अङ्ग न चङ्ग न गणो गुणानां, न निर्मल: कोऽपि कलाविलासः । स्फुरत्प्रभा न प्रभुता च कापि, तथाप्यहङ्कारकदर्थितोऽहम् ।। १५ ।। आयुर्गलत्याशु न पापबुद्धिर्गतं वयो नो विषयाभिलाषः । यत्नश्च भैषज्यविधौ न धर्मे, स्वामिन्महामोहविडम्बना मे ॥ १६ ॥ नात्मा न पुण्यं न भवो न पापं, मया विटानां कटुगीरपीयम् । अधारि कर्णे त्वयि केवलार्के, पुरः स्फुटे सत्यपि देव ! धिङ् माम् ॥ १७ न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वापि मानुष्यमिदं समस्तं कृतं मयाऽरण्यविलापतुल्यम् ॥ १८ ॥ चक्रे मयाऽसत्स्वपि कामधेनुकल्पद्रु चिन्ताणिषु स्पृहातिः । न जैनधर्मे स्फुटशर्मदेऽपि, जिनेश ! मे पश्य विमूढभावम् ॥ १९ ॥ सद्भोगलीला न च रोगकीला, धनागमो नो निधनागमश्च । दारा नकारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन || २० || स्थितं न साधोहृदि साधुवृत्तात्, परोपकारान्न यशोऽज्जिंतं च । कृतं न तीर्थोद्धरणादि कृत्यं, मया मुधा हारितमेव जन्म ॥ २१ ॥ वैराग्यरङ्गो न गुरुदितेषु, न दुर्जनानां वचनेषु शान्तिः । नाऽध्यात्मलेशो मम कोऽपि देव, तार्यः कथङ्कारमयं भवान्धिः || २२ || पूर्वे भवेऽकारि मया न पुण्यमागामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा भूतोद्भवद्भाविभवत्रयीश ! ॥ २३ ॥ किं वा मुधाऽहं बहुधा