________________
१०४
सुधाभुपूज्य त्वदमे चरितं स्वकीयम् । जल्पामि यस्मात् त्रिजगत्स्वरूपनिरूपकस्त्वं कियदेतदत्र ॥ २४ ॥ दीनोद्धारधुरन्धरस्त्वदपरो नास्ते मदन्यः कृपापात्रं नात्र जने जिनेश्वर ! तथाऽप्येतां न याचे श्रियम् । किंत्वई न्निदमेव केवलमहो सद्वोधिरत्नं शिवं, श्रीरत्नाकर ! मङ्गलैकनिलय ! श्रेयस्करं प्रार्थये ।। २५ ।। इति श्रीरत्नाकरपचविशतिका ॥
वाचकेन्द्रोमास्वातिविरचितं स्वोपज्ञभाष्यगतसम्बन्धकारिका दियुतं श्रीतत्त्वार्थाधिगमाख्यं महाशास्त्रम् ।
सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति । दुःखनिमित्तमपीदं तेन लब्धं भवति जन्म ॥ १ ॥ जन्मनि कर्मक्लेशैरनुबधेऽस्मिँस्तथा प्रयतितव्यम् । कर्मक्लेशाभावो यथा भवत्येष परमार्थः ॥ २ ॥ परमार्थालाभे वा दोषेष्वारम्भकस्वभावेषु । कुशलानुबन्धमेव स्यादनवद्य यथा कर्म ॥ ३ ॥ कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । इहफलमेव त्वधमो विमध्यमस्तूभयफलार्थम् ॥ ४ ॥ परलोकहितायैव प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः ॥ ५ ॥ यस्तु कृतार्थोऽप्युत्तममवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥ ६ ॥ तस्मादईति पूजामवोत्तमोत्तम लोके । देवर्षिनरेन्द्रेभ्यः पूज्येभ्यो ऽप्यन्यसत्त्वानाम् ॥ ७ ॥ अभ्यर्चनादईतां मनःप्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥ ८ ॥ तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म तीर्थकर नाम । तस्योदयात्कृतार्थोऽप्यस्तीर्थं प्रवर्तयति ॥ ९ ॥ तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् ।