________________
रुत्तरलाभे भवति सिद्धः ।। २३१ ॥ धर्मावश्यकयोगेषु भावितात्मा प्रमादपरिवर्जी । सम्यक्त्वज्ञानचारित्राणामाराधको भवति ॥२३२।। आराधनास्तु तेषां तिस्रस्तु जघन्यमध्यमोत्कृष्टाः । जन्मभिरष्ठत्येकैः सिध्यन्त्याराधकास्तासाम् ॥ २३३ ।। तासामाराधनतत्परेण तेष्वेव भवति यतितव्यम् । यतिना तत्परजिनभक्त्युपग्रहसमाधिकरणेन
॥ २३४ ॥ स्वगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोषविषादैरधृष्यस्य ॥ २३५ ।। प्रशमाव्याबाधसुखाभिकाङ्क्षिणः सुस्थितस्य सद्धर्मे । तस्य किमौपम्यं स्यात् सदेवमनुजेऽपि लोकेऽस्मिन् ॥ २३६ ॥ स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं न च व्ययप्राप्तम् ॥ २३७ ॥ निजितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ।। २३८ ॥ शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा । ज्ञात्वा च रागद्वेषात्मकानि दुःखानि संसारे ॥ २३९ ॥ स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरव्यथितो यः स नित्यसुखी ॥ २४० ॥ धर्मध्यानाभिरतस्त्रिदण्डविरतस्त्रिगुप्तिगुप्तात्मा । सुखमास्ते निद्वद्वो जितेन्द्रियपरीषहकषायः ॥२४१।। विषयसुखनिरभिलाषः प्रशमगुणगणाभ्यलङ्कतः साघुः । द्योतयति यथा न तथा सर्वाण्यादित्यतेजांसि ॥ २४२ ।। (सम्यग्दृष्टिर्ज्ञानी विरतितपोबलयुतोऽप्यनुपशान्तः । तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते) ॥ सम्यग्दृष्टिानी विरतितपोध्यानभावनायोगैः । शीलाङ्गसहस्राष्टादशकमयत्नेन साधयति ॥ २४३ ॥ ॐधर्माद्भूम्यादीन्द्रियसंज्ञाभ्यः करणतच योगाच्च । शीलाङ्गसहस्त्राणामष्टादशकस्यास्ति निष्पत्तिः ॥२४४|| शीलार्णवस्य पारं गत्वा संविग्नसुगममार्गस्य । धर्मध्यानमुपगतो वैराग्यं प्राप्नुयाद्योग्यम् ॥ २४५ ॥ आज्ञाविचयमपायविचयं च सद्धयानयोगमुपसृत्य । तस्माद्विपाकवि
HTHHTHHTHH