________________
९०
र्मोऽवकाशदानोपकद्गनम् ॥ २१५ ॥ स्पर्शरसगन्धवर्णाः शब्दो बन्धश्च सूक्ष्मता स्थौल्यम् । संस्थानं भेदतमश्छायोद्योतातपचेति ॥ २१६ ॥ कर्मशरीरमनोवागूविचेष्टितोच्छ्वासदुःखसुखदाः स्युः । जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः ॥ २९७ ॥ परिणाम वर्तनाविधिपरापरत्वगुणलक्षणः कालः । सम्यत्त्वज्ञानचारित्र वीर्यशिक्षागुणा जीवाः * ॥ २२८ ॥ पुद्गलकर्म शुभं यत्तत्पुण्यमिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम् ॥ २१९ ॥ योगः शुद्धः पुण्याश्रवस्तु पापस्य तद्विपर्यासः । वाक्कायमनोगुप्तिर्निराश्रवः संवरस्तूक्तः ॥ २२० ॥ संवृततपउपधानात्तु निर्जरा कर्मसन्ततिबन्धः । बन्धवियोगो मोक्षस्त्विति संक्षेपान्नवपदार्थाः ॥ २२१ ॥ एतेष्वध्यवसायो योऽर्थेषु विनिश्चयेन तत्त्वमिति । सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमाद्वा ।। २२२ ।। शिक्षागमोपदेशश्रवणान्येकार्थिकान्यधिगमस्य । एकार्थः परिणामो भवति निसर्गः स्वभाव' चः ॥ २२३ ॥ एतत्सम्यग्दर्शनमनधिगमविपर्ययौ तु मिथ्यात्वम् । + ज्ञानमथ पञ्चभेदं तत्प्रत्यक्षं परोक्षं च ॥ २२४ ॥ तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनःपर्यायौ केवलं चेति ।। २२५ ।। एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः । * एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्भ्य इति ।। २२६ ॥ * सम्यग्दृष्टेर्ज्ञानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । आद्यत्रयमज्ञानमपि भवति मिध्यात्वसंयुक्तम् ।। २२७ ॥ सामायिकमित्याद्यं छेदोपस्थापनं द्वितीयं तु । परिहारविशुद्धिः सूक्ष्मसम्परायं यथाख्यातम् ॥ २२८ ।। इत्येतत्पञ्चविधं चारित्रं मोक्षसाधनं प्रवरम् । अनैकैरनुयोगनयप्रमाणमार्गः समनुगम्यम् ।। २२९ ॥ सम्यक्त्त्वज्ञानचारित्र सम्पदः साधनानि मोक्षस्य । तास्वेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः ।। २३० ।। पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभ: पुन