Book Title: Shodashaka Prakaranam
Author(s): Haribhadrasuri,
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
तत्र जिनेन्द्ररूपमीदृशं ध्येयमित्याह ।
सिंहासनोपविष्टं छत्रत्रयकल्पपादपस्याधः ।
सत्त्वार्थसम्प्रवृत्तं देशनया कान्तमत्यन्तम् ॥ २ ॥ सिंहासने देवनिर्मितसिंहोपलक्षितासने छत्रत्रयसहितकल्पपादपस्याधोऽधस्तान्निषण्णं सत्त्वानां प्राणिनामर्थ उपकारस्तस्मिन् सम्यक्प्रवृत्तं देशनयाधर्मकथया कान्तं कमनीयमत्यन्तमतिशयेन ।। २ ॥ .
ત્યાં જિનેશ્વરનું રૂપ આવું ધ્યાવું જોઈએ તે દર્શાવે છે.
ગાથાર્થ :- દેવ નિર્મિત સિંહથી ઉપલક્ષિત આસન ઉપર બિરાજમાન, ત્રણ છત્ર યુક્ત કલ્પવૃક્ષની નીચે રહેલા પ્રાણીઓનાં ઉપકાર માટે દેશનામાં સારી રીતે પ્રવૃત્ત થયેલ અત્યંત મનોહર એવાં જિનેશ્વરના स्व३५ने ध्याj॥ २ ॥.... .... .
आधीनां परमौषधमव्याहतमखिलसम्पदां बीजम् ।
चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥ ३ ॥ आधीनां - मानसीनां : पीडानां परमौषधं तदपनेतृत्वेनाव्याहतमनुपहतमखिलसम्पदां सर्वसम्पत्तीनां बीजं-कारणं चत्रादीनि यानि लक्षणानि चक्रस्वस्तिककमलकुलिशादीनि "तैर्युतं सहितं निर्मीयतेऽनेनेति निर्माणं सर्वोत्तम पुण्यनिर्माणं यस्य स तथा तं सर्वातिशयितादृष्टाकृष्टपरमाणुनिर्मितमित्यर्थः ।। ३ ।।
निर्वाणसाधनं भुवि भव्यानामय्यमतुलमाहास्यम् । .. सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयं च ॥ ४ ॥ : ११ निर्वाणसाधनं परमपदप्रापकं भुवि-पृथिव्यां भव्यानां योग्यानामग्र्यं प्रधानमतुलमाहात्म्यमसाधारणप्रभावं सुरा देवा सिद्धा विद्यामन्त्रसिद्धादयों योगिनो योगबलसम्पन्नास्तैर्वन्धं वन्दनीयं वरेण्यशब्दैः अर्हच्छम्भुबुद्धपरमेश्वरादिभिरभिधेयं वाच्यं च जिनेन्द्ररूपं ध्येयमिति महावाक्यसम्बन्धः ।। ४ ।।
वणी विशेष स्व३५ शक्ति छ...
| 194
શ્રીષોડશકપ્રકરણ-૧૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226