Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta

View full book text
Previous | Next

Page 258
________________ સ-૧૫ कृष्णोऽपि तेन बाणेन, सहसोत्थाय दृष्टवान् । पश्यतेतस्ततस्तेन, समीक्षितः स पुरुषः ॥ २० ॥ दृष्ट्वा तमब्रवीद्विष्णु, को रे पुरुष वर्तसे । अद्यप्रभृति केनाप्य-ज्ञातनाम्ना हतोऽस्मि न ।। ततो रे पुरुष ब्रूहि, निजजात्यभिधादिकं । द्रुमांतरस्थितः सोऽपि प्रोचे कि मर्त्य ! पृछसि ॥ हरिवंशमहाकाश- चंडमार्तंडदोधितेः । वसुदेवस्य पुत्रोऽहं नाम्ना जराकुमारकः ||२३|| बांधवौ रामगोविदौ, प्रवर्त्तते ममानुजौ । पराक्रमेण संग्रामे, विजेतारौ सहस्रशः ||२४|| भविष्यति जरापुत्र - पाणिना मरणं हरेः । इति श्रीनेमिनो वाक्यं श्रुत्वाहं निर्गतो बहिः ॥ माभून्मदीयहस्तेन, हननं नरकद्विषः । भीत्येति भ्रातृरक्षार्थं, करोमि वनसेवनं ॥ २६ ॥ काननं सेवमानस्य, बंधुस्नेहवतो मम । जातानि द्वादशाब्दानि दृष्टः कोऽपि नरोऽत्र न ॥ २७ ॥ ब्रूहि तद्वर्त्तसे स्तवं स प्राह हरिरस्म्यहं । त्वमत्रागच्छ मा भैषी-र्नान्यथा भवितव्यता |२८| यद्भयाद्वनवासस्तु त्वया बंधो विनिर्मितः । देहछायेव संजातः, सोऽग्रतः सहचाति तत् ॥ अहं त्वेतेन घातेन, जीविष्यामि न सर्वथा । तथाप्येहि क्षणं वार्त्ता प्रकुर्वः सुखदुःखयोः ।। इत्युक्ते स समागत्यो -पलक्ष्य च नरायणं । पादविद्धं समालोक्य मूर्च्छा जारेय ईयिवान् ॥ कथमप्याप्त चैतन्यो, विलापान् विविधानसौ । प्रचकार विका रेण, वर्जितोऽजितपातकः । ३२। हा ! हा! प्रातः ! क्क यास्यामि, प्रकरिष्याम्यहं च किं ? । , ૨૫૧ मदीयमथविश्वासं, जनयिष्यति को जनः ॥३३॥ नीचस्यापि न मर्त्यस्य, मारणं महतां शुभं । किं पुनर्वासुदेवस्य, सहोदरस्य घातनं ||३४|| निमंतूनां मनुष्याणां मारकस्य नरस्य तु । कुत्रापि स्थानकं भावि, बंघो न नरके मम |३५| भ्रातः ! fक द्वारिका दग्धा, देवकीवसुदेवयोः । अभूत्किं मरणं सर्व-यदूनामपि च क्षयः ॥ तेनात्र त्वं भ्रमन्नागा, दुर्भावितव्यताबलात् । मयि घोरमघं दातुं त्वज्जीवितव्यनाशकं ॥ ३७॥ सहचारी तव भ्रात- र्बलदेवः क्क वर्तते । जगाद पद्मनाभोऽपि गतोऽस्ति पयसे मम ॥३८॥ यदा बाणो मया क्षिप्तो, मूर्खेणाज्ञानयोगतः । न कथं धनुषा साक-मंगुल्यस्त्रुटितास्तदा । ३९ । विलापान् जनयन् बाढ- स्वरेणेति रुरोदसः । यथा काननगान् सर्वान्, श्वापदानप्यरोदयत् ॥ तदोचे विष्णुना भ्रातः, कथं रोदिषि दुःखतः । भाविनी कर्मरेखा न चलेन्नानाप्रयत्नतः ॥ अथ त्वमपसव्येन, गछ दूरं पदेन च । यथा त्वदनुसृत्या त्वां न हत्यादागतो हली ॥४२॥ अपरे यादवाऽभ्वन्, भस्मसाद् द्वारिकापुरि । चेत्तेषामन्वये यह, जीवेत्तदपि सुंदरं ||४३|| इदं कौस्तुभमाणिक्यं गृहीत्वा गच्छ पांडवान् । द्वारिकादिस्वरूपं च कथनोयं त्वयाखिलं ।। क्षमणीयोऽपराधोऽपि, मदीयो धर्म वृद्धये । पूर्वं ते क्लेशिताः संति, मया राज्योपभोगिना ॥ प्रोक्तं नारायणेनेति, कृष्ट्वा चरणतः शरं । आदाय कौस्तुभं रत्नं, प्रचचाल जरांगजः ॥४६॥ ભાજન કરી, થાડા આરામ લઇને રામ અને કૃષ્ણ, પશ્ચિમ દિશા તરફ ચાલ્યા. આગળ

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294