Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
सग-१५
૨૫૫
सत्यं भ्रातर्वदेस्त्वं न, सलिलार्थ गते मयि । बभूव महतो वेला, तेन रुष्टोऽसि मां प्रति ॥६४॥ इयंतं समयं यद्य-प्यपराधा अनेकधा । मया कृतास्तथापि त्व-मस्था मौनो कदापि न ।६५। दीर्घरोष्यपि नाभूस्त्वं, दीर्घनिद्रोऽपि केशव । वराके मयि कि दीर्घः, कोपःप्रारभ्यते त्वया ॥ भो वनदेवता यूयं, मयि रुष्टं सहोदरं । मानयतांतरे भूत्वा, यथा जल्पेदयं मया ॥६७॥ स मुंचन दीर्घनि श्वासा-नूचे भो कुलदेवताः । यूयं कुत्र गता दुःखं, निराकुरुथ नो कथं ॥६८॥ पंचास्य त्वयि शौर्य चे-द्भवेत्क्ष्वेडां तदा कुरु । यथा चासहमानोऽय-मुत्तिष्ठत्त्वज्जिघृक्षया ॥ अहो मृगाः समायांतु, भवंतोऽपि भयोझिताः । यथायं खेलयेद्युष्मान्, मृदुस्वभावधारिणः ॥ मयूरास्तांडवं यूयं, समेत्य कुरुतादरात् । यथायं भवतां नृत्यं, समीक्षेत सहोदरः ।।७१॥ कोकिलाः पंचमं रागं, प्रकुरुध्वं निजेच्छया । यथा मद्बांधवो युष्म-द्गीतगानं श्रृणोत्ययं ॥ तेनैव वचनः प्रोचे, बलभद्रस्तदावदत् ॥ ब्रूहि बंधोऽहमेकाकी, विभेम्यत्र बने घने ॥७३॥ दग्धा द्वारवती पूर्व, पितभ्यां मुमुचे पुनः । स्वजनैश्च वियोगोऽभू-तथाप्यस्थापि हत्त्वयि ।७४। न प्रजल्पसि यहि त्व-मपि तहि गतिर्मम । का भविष्यति बंधो त-द्वद त्वं वदनान्मया ।।७५। तृषया पीडितस्यास्य मूर्छागता भविष्यति । सम्यक् तस्यां निवृत्तायां, वदिष्यति ममानुजः ॥ चितयित्वेति रामेण, शबमुत्पाटितं हरेः । निजस्कंधोपरि स्नेहात्, वदिष्यति ममानुजः ॥ यदा भूक्त स आहारं, तदा प्रथममेव तु । कृष्णास्ये कवलान् मुंचन, ब्रूते गृहाण भोजनं ॥ यदा शबं न तल्लाति, बलदेवस्तदावदत । कदापि क्षुधया स्थातुं, न क्षमस्त्वमभूहरे ॥७९॥ भ्रातः कथमिदानीं त्व-मागृहीतोऽपि लासि न । त्वत्स्वरूपं न जानामि, रुष्टोऽसि केन हेतुना ॥ यदा पिबति पानीयं, तदा तेन निमंत्रयेत् । रजन्यामामृशेत्पाद-तले बलोऽतिमोहतः ॥८१॥ कदाप्येतस्य कृष्णस्य, मामूदुःखं मनागपि । तिष्टेत्सेवनयैवेति, दिवारात्रौ स सात्वतः । ८२। षण्मास्यामिति जातायां, जीवः सिद्धार्थसारथेः । यः स्वर्ग जग्मिवान्नेमि-पाव आदाय संयमं॥ स्ववाचाप्रतिबंधेन, स्वर्गादेत्य स निर्जरः । रामस्य प्रतिबोधार्थ, रथमश्ममयं व्यधात् ॥८४॥ विषमं गिरिमुत्तीर्य, यावत्समे समागतः । तावत्स स्यंदनस्तस्य, खंडखंडमजायत ॥८५॥ देवः कुटुंबिरूपेण, सज्जोचकार तं यदा । आसमंजस्यमालोक्य, तदा रामस्तमब्रवीत् ॥८६॥ भो मूर्खः यः समे स्थाने, भग्नोऽस्ति स्यंदनस्तव । संप्रत्येव विनोपायं, कथं सज्जीभविष्यति ।। कुटुंबी प्राह भो मर्त्य, जीविष्यति यदा शबं । तदायमपि मे क्षिप्रं, रथः संधि गमिष्यति ।८८। पाषाणे पद्मिनीमग्रे, गत्वा सोऽवापयत्सुरः। हलो प्राह कदाप्येषा-स्त्युद्गता दृषदि स्वयं ॥८९॥ स प्राहोत्पाटितं स्कंधो-पर्येतत्कुणपं यदा । जीविष्यति तदा पनि-न्युद गमिष्यति चोपले ॥ अहो राम मृतो मर्यो, न करोत्यदनादिकं । न पिबेत्सलिलं जल्पे-न्न वेत्ति जनसेवनं ॥९१॥ अतस्त्वमपि किं मोह-मौढ्येन नरकद्विषः । शरीरं वहसे सेवां, करोषि प्रतिवासरं ॥१२॥

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294