________________
સ-૧૫
कृष्णोऽपि तेन बाणेन, सहसोत्थाय दृष्टवान् । पश्यतेतस्ततस्तेन, समीक्षितः स पुरुषः ॥ २० ॥ दृष्ट्वा तमब्रवीद्विष्णु, को रे पुरुष वर्तसे । अद्यप्रभृति केनाप्य-ज्ञातनाम्ना हतोऽस्मि न ।। ततो रे पुरुष ब्रूहि, निजजात्यभिधादिकं । द्रुमांतरस्थितः सोऽपि प्रोचे कि मर्त्य ! पृछसि ॥ हरिवंशमहाकाश- चंडमार्तंडदोधितेः । वसुदेवस्य पुत्रोऽहं नाम्ना जराकुमारकः ||२३|| बांधवौ रामगोविदौ, प्रवर्त्तते ममानुजौ । पराक्रमेण संग्रामे, विजेतारौ सहस्रशः ||२४|| भविष्यति जरापुत्र - पाणिना मरणं हरेः । इति श्रीनेमिनो वाक्यं श्रुत्वाहं निर्गतो बहिः ॥ माभून्मदीयहस्तेन, हननं नरकद्विषः । भीत्येति भ्रातृरक्षार्थं, करोमि वनसेवनं ॥ २६ ॥ काननं सेवमानस्य, बंधुस्नेहवतो मम । जातानि द्वादशाब्दानि दृष्टः कोऽपि नरोऽत्र न ॥ २७ ॥ ब्रूहि तद्वर्त्तसे स्तवं स प्राह हरिरस्म्यहं । त्वमत्रागच्छ मा भैषी-र्नान्यथा भवितव्यता |२८| यद्भयाद्वनवासस्तु त्वया बंधो विनिर्मितः । देहछायेव संजातः, सोऽग्रतः सहचाति तत् ॥ अहं त्वेतेन घातेन, जीविष्यामि न सर्वथा । तथाप्येहि क्षणं वार्त्ता प्रकुर्वः सुखदुःखयोः ।। इत्युक्ते स समागत्यो -पलक्ष्य च नरायणं । पादविद्धं समालोक्य मूर्च्छा जारेय ईयिवान् ॥ कथमप्याप्त चैतन्यो, विलापान् विविधानसौ । प्रचकार विका रेण, वर्जितोऽजितपातकः । ३२। हा ! हा! प्रातः ! क्क यास्यामि, प्रकरिष्याम्यहं च किं ? ।
,
૨૫૧
मदीयमथविश्वासं, जनयिष्यति को जनः ॥३३॥ नीचस्यापि न मर्त्यस्य, मारणं महतां शुभं । किं पुनर्वासुदेवस्य, सहोदरस्य घातनं ||३४|| निमंतूनां मनुष्याणां मारकस्य नरस्य तु । कुत्रापि स्थानकं भावि, बंघो न नरके मम |३५| भ्रातः ! fक द्वारिका दग्धा, देवकीवसुदेवयोः । अभूत्किं मरणं सर्व-यदूनामपि च क्षयः ॥ तेनात्र त्वं भ्रमन्नागा, दुर्भावितव्यताबलात् । मयि घोरमघं दातुं त्वज्जीवितव्यनाशकं ॥ ३७॥ सहचारी तव भ्रात- र्बलदेवः क्क वर्तते । जगाद पद्मनाभोऽपि गतोऽस्ति पयसे मम ॥३८॥ यदा बाणो मया क्षिप्तो, मूर्खेणाज्ञानयोगतः । न कथं धनुषा साक-मंगुल्यस्त्रुटितास्तदा । ३९ । विलापान् जनयन् बाढ- स्वरेणेति रुरोदसः । यथा काननगान् सर्वान्, श्वापदानप्यरोदयत् ॥ तदोचे विष्णुना भ्रातः, कथं रोदिषि दुःखतः । भाविनी कर्मरेखा न चलेन्नानाप्रयत्नतः ॥ अथ त्वमपसव्येन, गछ दूरं पदेन च । यथा त्वदनुसृत्या त्वां न हत्यादागतो हली ॥४२॥ अपरे यादवाऽभ्वन्, भस्मसाद् द्वारिकापुरि । चेत्तेषामन्वये यह, जीवेत्तदपि सुंदरं ||४३|| इदं कौस्तुभमाणिक्यं गृहीत्वा गच्छ पांडवान् । द्वारिकादिस्वरूपं च कथनोयं त्वयाखिलं ।। क्षमणीयोऽपराधोऽपि, मदीयो धर्म वृद्धये । पूर्वं ते क्लेशिताः संति, मया राज्योपभोगिना ॥ प्रोक्तं नारायणेनेति, कृष्ट्वा चरणतः शरं । आदाय कौस्तुभं रत्नं, प्रचचाल जरांगजः ॥४६॥ ભાજન કરી, થાડા આરામ લઇને રામ અને કૃષ્ણ, પશ્ચિમ દિશા તરફ ચાલ્યા. આગળ