Book Title: Pushpamalaprakaranam
Author(s): Hemchandracharya, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 278
________________ नास्ति तयाप्यहमेवं मन्ये-भवेदसाध्यं किमपि कार्य जगति तेषामपि, परं विनीतानां पुरुषाणां नास्ति किमप्यसाध्य कार्य, विनीतो || हि स्वर्गापवर्गावपि साधयति, न तु मणिमन्त्रादिरिति गाथार्थः ॥४१२॥ ऐहिक पारत्रिकं च विनयफलं सदृष्टान्तमाहर इह लोएचिय विणओ, कुणइ विणीयाण इच्छियं लच्छि। जह सीहरहाईणं, सुगइनिमित्तं च परलोए ।।४१३॥ व्याख्याइहलोक एव तावदिनयो विनीतानां ईप्सिता लक्ष्मीं करोति, यथा सिंहस्थादीनां, परलोके पुनः सुगतिनिमिर्च च भवतीति माथार्थः ॥४१३॥ कथानकं तूच्यते-सुगन्धपुरे पुण्डरीकनृपः, तस्य सुतः सिंहरथनामाऽपरगुणयुक्तोऽपि दुर्विनीतत्वाद्राज्ञोऽशेषजनस्य चानियोजनि, राना स परित्यक्तो दुःखी क्यापि पुरे भ्रमन् क्वाप्येकं तुरङ्ग सर्वप्रकारैरय॑मानं द्वितीयं कूटयमानं दृष्ट्वा विस्मितः कुमारः कचनापृच्छत् , स नरः प्राह-मो! असौ विनीता, स्वखामिनो मनोऽभिप्रायेण चलति, अतः पूज्यते, अपरो दुर्विनीतस्तेन कुट्यते । तदुनियफलं श्रुत्वा प्रबुद्धो विनयं तथा चकार यथा [तवत्य] नृपं जनाब रखपामास सः। तेन च राहा सत्स्वपि बहुषु पुत्रेषु विनीतत्वात्तस्य स्वं राज्यमदायि। पित्रा पुण्डरीकनृपेणापि सुतं विनीतं जातं श्रुत्य बहुमानपूर्वकमाकार्य सुगन्धपुरराज्यं तस्यादायि। नृपाभ्यां दीक्षा गृहीता। श्रीसिंहस्थो विनयाश्रयणात्प्राप्तप्रौढप्रतिष्ठ आश्रितसर्वगुणः क्रमेण लब्धश्रीसंयमसाम्राज्या सर्वार्थसिद्धिमगमत् । महाविदेहेषु सेत्स्यति । इति ऐइलौकिकपारलौकिकसुखाना कारण विनयः, इति सिंहस्थराजकथा समाप्ता ॥ अथोपसंहरमाकिं बहुणा ? विणओच्चिय, अमूलमंतं जए वसीकरणं । इहलोयपारलोइय-सुहाण वैछियफलाण ॥४१॥

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331